पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योगविषयः

गुरुश्च गुरुपुत्रश्च ये चान्ये गुरुबान्धवाः ॥१ ॥
अन्येषांच क्रमाज्ज्येष्टास्तेषां पादौ नमाम्यहम् ।।
यादृशी भावनातीतं तं गुरुं प्रणमाम्यहम्।
भ्रान्तश्च भ्रमते लोको निर्भ्रान्तः कृतनिश्चयः ॥ । २ ॥ ।
तस्य सिध्यन्ति पुरुषा आदिनाथे व्यवस्थिताः।
कुलजातिसमायुक्तः सुचरित्रगुणान्वितः ॥३॥
गुरुभक्तियुतो धीमान् स शिष्य इति कथ्यते ।
आकुलेनादिनाथेन केनापूपीनवासिना ।।४॥
कृपयैव परं तत्त्वं मीननाथोऽपि बोधतः ।
मीननाथोऽपि सच्छिष्यं प्रत्युवाच समाहितः ॥५॥
त्वं गुरुस्त्वञ्च शिष्यश्च शिष्यस्य च गुरोरपि ।
नानयोरपि भेदोऽत्र समसिद्धिः प्रजायते ॥६॥
उमाशङ्करपुत्रोऽहं मीननाथो मुनीश्वरः।
कथयामि परं तत्त्वं कुलाकुलविबोधकम् ॥ ७ ॥
आधारः स्वाधिष्ठानञ्च मणिपूरमनाहतम्।
विशुद्धिराज्ञा कौलानि षट् चक्राणि शुभानि च ।।८ ॥
आधारश्च गुदे तस्थौ स्वाधिष्ठानञ्च लिङ्गके ।।
मणिपूरं नाभिगतं हृदये चाप्यनाहतम् ॥ ९॥
विशुद्धिः कण्ठदेशे च आज्ञाचक्रं भ्रुवोर्मुखम् ।
चक्रभेदमिति ज्ञात्वा चक्रातीतं निरञ्जनम् ॥ १० ॥
इडा वहति वामे च पिङ्गला वहति दक्षिणे ।
इडापिङ्गलयोर्मध्ये सुषुम्ना सुखरूपिणी ॥११॥