पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२

बालोन्मत्तपिशाचमूकजडवत् चेष्टाश्च नानाविधा ।
ये कुर्वन्ति पदं विना मतिबलाद्भ्रष्टा विमुह्यन्ति ते ।। ९२ ।।
कथां दर्शनमद्भुतं बहुविधं भिक्षाटनं नाटकम् ।
भस्मोद्धूलनमङ्गं ककर्शतरं कृत्वाथ वर्षं चरेत् ।।
क्षेत्रं क्षेत्रमटन्ति दुर्गमतरं छित्वाथ सर्वेन्द्रियम् ।
नो विन्दन्ति परं पदं गुरुमुखाद्ग​र्वेण कष्टाश्च ते ।। ९३ ॥
वाणीं ये च चतुर्विधां स्वरचितां सिद्धैश्च वा निर्मितां ।
गायत्रीचतुराश्च पाठनिरता विद्याविवादे रताः ।।
नो विन्दन्ति तदर्थमात्मसदृशं खिद्यन्ति मोहाद्वलात् ।
दण्डैः कर्तरिशूलचक्रलगुडैर्भण्डाश्च दुष्टाश्चये ।। ९१ ।।
एवं शून्यादिशून्यं परमपरपदं पञ्चशून्यादिशून्यम् ।
व्योमातीतं ह्यनाद्यं निजकुलमकुलं चाद्भुतं विश्वरूपम् ।।
अव्यक्तं चान्तरालं निरुदयमपरं भासनिर्नाममैक्यम् ।
वाङ्मात्राद्भासयन्तो बहुविधमनसो व्याकुला भ्रामितास्ते ।। ९४ ॥
आज्ञासिद्धिकरं सदा समुचितं सम्पूर्णमाभासकम् ।
पिण्डे सर्वग​तं विधानममलं सिद्धान्तसारं वरम् ।
भ्रान्तेर्निर्हरणं सुखातिसुखदं कालान्तकं शाश्वतम्।
तन्नित्यं कलनोद्ग​तं गुरुमयं ज्ञेयं निरुत्थं पदम् ॥ ९५॥
आत्मेति परमात्मेति जीवात्मेति विचारणे ।
त्रयाणामैक्यसंभूतिः आदेश इति कीर्तितः ।। ९६ ।।
आदेश इति सद्वाणीं सर्वद्वन्द्वक्षयापहाम् ।
यो योगिनं प्रतिवदेत् स यात्यात्मानमैश्वरम् ।। ९७ ।।
आशादहनं भसितं कुण्डलयुगलं विचारसन्तोषः ।
कौपीनं स्थिरचित्तं खर्परमाकाशमात्मनो भजनम् ॥ ९८ ।।


३१ -त्वरेत् (ह.). ३२ - शून्यातिशून्यं (तं.). ३३ -मृत्युहरं (तं.). ३४ • कलज्ज्ञितं (ह.).