पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९

परपक्षं निरासं करोति :-
वेदान्ती बहुतर्ककर्कशमतिर्ग्र​स्तः परं मायया ।
भाट्टाः कर्मफलाकुला हतधियो द्वैतेन वैशेषिकाः ।
अन्ये भेदरताः विवादविकला स्ते तत्त्वतोवञ्चिताः
( सत्तत्त्वतोवञ्चिताः )।
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥ ७६ ॥
सांख्या वैष्णवा वैदिका विधिपराः संन्यासिनस्तापसाः ।
सौरा वीरपराः प्रपञ्चनिरता बौद्धा जिनाः श्रावकाः ॥
एते कष्टरता वृथापथगतास्ते सत्तत्त्वतो वञ्चिताः ।
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ।। ७७ ।।
आचार्या बहुदीक्षिता हुतिरता नग्नव्र​तास्तापसाः ।
नानातीर्थनिषेवका जपपरा मौनस्थिता नित्यशः ।
एते ते खलु दुःखभारनिरतास्ते सत्तत्त्वतो वञ्चिताः ।
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ।। ७८ ।।
आदौ रेचक-पूरक-कुम्भक-विधौ नाडीपथा शोधितम् ।
कृत्वा हृत्कमलोदरे तु सहसा चित्तं महामूर्च्छितम् ।।
पश्चादव्ययमक्षरं परकुले चोंकारदीपाङ्कुरे ।
ये पश्यन्ति समाहितेन मनसा तेषां न नित्यं पदम्।
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ।। ७९॥
चार्वाकाश्चतुराश्व तर्कनिपुणा देहात्मवादे रताः।
ते सर्वं तरन्ति दुःसहतरं ये ते परं सात्विकाः ।
ते सर्वे प्रभवन्ति ये च यव​नाः पापे रता निर्दयाः ।
तेषामैहिकमल्पमेव फलदं तत्त्वं न मोक्षपदम् ॥ ८० ॥

१६-कमयं (तं). १७- शैवाः पाशुपता महाव्रतधरा कालामुख़ा जंगमाः ।शाक्ताः कौल कुला कुलार्चनरता - कापालिकाः शाम्भवाः । एते कृत्रिममंत्रतंत्रनिरतास्ते तत्त्वतो वञ्चिताः तस्मात सिद्धमतं (तं.). १८-रजसा (तं.). १९-मोक्षफलम् (तं.).