सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८

विश्वातीतं यथा विश्वमेकमेव विराजते ।
संयोगेन सदा यस्तु सिद्धयोगी भवेत्तु सः ।। ६६ ॥
सर्वासां निजवृत्तीनां प्रसृति र्भ​जते लयम् (तु यः )
स भवेत् सिद्धसिद्धान्ते सिद्धयोगी महाबलः।। ६७ ।।
उदासीनः सदा शान्तः स्वस्थोऽन्तर्निजभासकः ।
महानन्दमयो धीरः स भवेत् सिद्धयोगिराट् ॥ ६८ ॥
परिपूर्णः प्रसन्नात्मा सर्वासर्वपदोदितः ।
विशुद्धो निर्भरानन्दः स भवेत् सिद्धयोगिराट् ।। ६९ ।।
परिपूर्णः प्रसन्नात्मा सर्वानन्दकरः सुधीः ।
सर्वानुग्रहधीः सम्यक् स भवेत् सिद्धयोगिराट् ॥ ७० ॥
गते न शोकं विभवे न वांछां प्राप्ते च हर्यं न करोति योगी ।
आनन्दपूर्णो निजबोधलीनो न वाध्यते कालपथेन
नित्यम् ॥ ७१ ॥

एवं सर्वसिद्धान्तदर्शनानां पृथक् पृथक् भूतानामपि ब्रह्मणि समन्वयसूचनशीलोपदेशकर्ताऽवधूत एव सद्गुः प्रशस्यते । एषामुपदेशानां पृथक् पृथक् सूचितानां जायते यत्र विश्रान्तिः सा विश्रान्तिरभिधीयते ॥ ७२॥

लीनतां च स्वयं याति निरुत्थानचमत्कृतेः ।
य​तो निरुत्थानमयात् (मयः) सोऽयं स्यादवधूतराट् ॥ ७३ ॥
तस्मात्तं सद्गुरुं साक्षाद्वन्दयेत् पूजयेत्सदा।
सम्यक् सिद्धपदं धत्त तत्क्षणात्स्वात्मभासितम् ॥ ७४॥
न वन्दनीयास्ते काष्टोः दर्शनभ्रान्तिकारकाः ।
वर्जयेत् तान् गुरून् दूरे धीरः सिद्धमताश्रयः ।। ७५।।


१४-अतो (तं.). १५–कष्टः (तं.).