पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४

मोदन्ते देवसंघाश्च द्रावन्तेऽसुरराशयः।
मुद्रेति कथिता साक्षात्सदा भद्रार्थदायिनी ॥ ३१ ॥
अस्मिन् मार्गेऽदीक्षिता ये सदा संसाररागिणः ।
ते हि पाषण्डिनः प्रोक्ताः संसारपरिपेलवाः ॥ ३२ ॥
अवधूत-तनुर्योगी निराकारपदे स्थितः । ।
सर्वेषां दर्शनानां च स्वस्वरूपं प्रकाशते ॥ ३३ ॥
तत्र ब्राह्मणेषु ब्रह्मचर्याश्रममाह :-
सर्वतो भरिताकारं निजबोधेन बृंहितम् ।
चरते ब्रह्मविद्यस्तु ब्रह्मचारी स कथ्यते ।। ३४ ।।
गृहिणी पूर्णता नित्या गेहं व्योम सदाचलम् ।
यस्तयोर्निवसत्यत्र गृहस्थः सोऽभिधीयते ।। ३५॥
सदान्तःप्रस्थितो योऽसौ स्वप्रकाशमये वने ।
वानप्रस्थः स विज्ञेयो न वने मृगवञ्चरन् ।। ३६ ॥
परमात्माथ जीवात्मा आत्मन्येव स्फुरत्यलम् ।
तस्मिन् न्यस्तः सदा येन संन्यासी सोऽभिधीयते ।। ३७
मायाकर्मकलाजालमनिशं येन दण्डितम् ।
अचलो नगवद्भाति त्रिदण्डी सोऽभिधीयते ।। ३८ ।।
एकं नानाविधाकारमस्थिरं चञ्चलं सदा ।
तच्चित्तं दण्डितं येन एकदण्डी स कथ्यते ।। ३९॥
शुद्धं शान्तं निराकारं परानन्दं सदोदितम् ।
तं शिवं यो विजानाति शुद्धबुद्धशैवो भवेत्तु सः ॥४०॥
सन्तापयति दीप्तानि स्वेन्द्रियाणि च यः सदा । ।
तापसः स तु विज्ञेयो न च गोभस्मधारकः ।। ४१ ।।


१३-सदावलं (ह.).