३६
क्रियाजालं पशुं हत्वा पतित्वं पूर्णतां गतम् ।
यस्तिष्ठेत्पशुभावेन स वै पाशुपतो भवेत् ।। ४२॥
परानन्दमयं लिङ्गं निजपीठे सदाऽचले ।
तल्लिङ्गं पूजितं येन स वै कालमुखो भवेत् ।। ४३ ।।
विलयं सर्वतत्त्वानां कृत्वा संधार्यते स्थिरम् ।
सर्वदा येन वीरेण लिङ्गधारी भवेत्तु सः ॥ ४४॥
अन्तकादीन् तत्त्वानि त्यक्त्वा नग्रो दिगम्बरः ।
यो निर्वाणपदे लीनः स निर्वाणपरो भवेत् ।। ४५।।
स्वस्वरूपात्मकं ज्ञानं समन्त्रं (समन्तात् ) तत्प्रतिपालितम्
अनन्यत्वं सदा येन स वै कापालिको भवेत् ।। ४६ ।।
महाव्याप्तिपरं तत्त्वमाधाराधेयवर्जितम् ।
तदूव्रतं धारितं येन स भवेद्वै महाव्रतः ।। ४७ ।
कुलं सर्वात्मकं पिण्डमकुलं सर्वतोमुखम् ।
तयोरैक्यपदं शक्तिर्यस्तां वेद स शक्तिभाक् ।। ४८ ।।
कौलं सर्वकलाग्रासः स कृतः सततं यया ।
तां शक्तिं विजानाति शक्तिज्ञानी स कथ्यते ।। ४९।।
ज्ञात्वा कुलाकुलं तत्त्वं स क्रमेण क्रमेण तु ।
स्वप्रकाशमहाशक्त्या ततः शक्तिपदं लभेत् ।। ५० ।।
मदो मद्यं मतिर्मुद्रा माया मीनं मनः पलम् ।
मूर्च्छनं मैथुनं यस्य तेनाऽसौ शाक्त उच्यते ।। ५१ ।।
यया भासस्फुरद्रूपं कृतं चैव स्फुटं वलात् ।
तां शक्तिं यो विजानाति शाक्तः सोऽत्राभिधीयते ।। ५२॥
यः करोति निरुत्थानं कर्तृचित्प्रसरेत्सदा ।
तद्विश्रान्तिस्तया शक्त्या शाक्तः सोऽत्राभिधीयते ।। ५३ ।।