सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४

एवं-विध नानासंकेतसूचकनित्यप्रकाशे (वस्तुनि) सुनिजस्वरूपी सर्वेषां सिद्धान्तदर्शनानां स्वस्वरूपदर्शने सम्यक् सद्वेध​कोऽ वधूतयोगी-त्यभिधीयते स सद्गुरुर्भवति । यतः सर्वदर्शनानां स्वस्वरूपदर्शने समन्वयं करोति सोऽवधूतुयोगी स्यात् ।

अत्याश्रमी च योगी च ज्ञानी सिद्धश्च सुव्रतः ।
ईश्वरश्च तथा स्वामी धन्यः श्रीसाधुरेव च ।। २१॥
जितेन्द्रियश्च भगवान् स सुधीः कोविदो बुधः ।
चार्वाकश्चार्हतश्चेति तथा बौद्धः प्रकाशवित् ॥ २२ ॥
तार्किकश्चेति सांख्यश्च तथा मीमांसको विदुः।
देवतेत्यादिविद्वद्भिः कीर्तितः शास्त्रकोटिभिः ।। २३ ।।
आत्मेति परमात्मेति जीवात्मेति पुनः स्वयम् ।
अस्तितत्त्वं परं साक्षाच्छिव-रुद्रादि-संज्ञितम् ।। २४ ॥
शरीरपद्मकुहरे यत्सर्वेषांमवस्थितम् ।
तदवश्यं महायासाद्वेदितव्यं मुमुक्षुभिः ॥ २५॥
ब्रह्मा विष्णुश्च रुद्रश्च सोऽक्षरः परमः स्वराट् ।
स एव इन्द्रः स प्राणः स कालाग्निः सचन्द्रकः ॥ २६ ॥
स एव सूर्यः स शिवः स एव परमः शिवः ।
स एव योगगम्यस्तु सांख्यशास्त्रपरायणैः ॥ २७ ।
स एव कर्म इत्युक्तः सर्वकर्ममीमांसकैरपि ।
सर्वत्र सत्परानन्द इत्युक्तो वैदिकैरपि ॥ २८ ॥
व्यवहारैरयं भेदः तस्मादेकस्य नान्यथा।
मुद्-मोदे तु रानन्दो (रादाने) जीवात्मपरमात्मनोः ॥२९॥
उभयोरैक्यं संवित्ति र्मुद्रेति परिकीर्तिताः ॥ ३० ॥


८ - सद्वोधकोऽवधूत (ह.). ९ -संन्यासी (तं.) १० - शाब्दि कश्चेति (तं.). ११-महापाशात्ष्छेदितव्यं (ह.).१२. शास्ता स विनायकः स कालाग्निः स चन्द्रार्कौ (तं.).