पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१

तारयत्यैव दृकूपातात् कथनाद्वा विलोकनात् ।
तारिते स्वपदं धत्ते स्वस्वमध्ये स्थिरो भवेत् ।। ७४ ।।
ततः स मुच्य​ते शिष्यो जन्मसंसारबन्धनात् ।
परानन्दमयो भूत्वा निष्कलः शिवतां व्रजेत् ।। ७५ ।।
कुलानां कोटिकोटीनां तारयत्येव तत्क्षणात् ।
अतस्तं सद्गुरुं साक्षात् त्रिकालमभिवन्दयेत् ॥ ७६ ।।
सर्वाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् ।
भजनात्स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ।। ७७ ।।
किमत्र बहुनोक्तेन शास्त्रकोटिशतेन च ।
दुर्लभा चित्तविश्रान्तिर्विना गुरुकृपां पराम् ॥ ७८ ॥
चित्तविश्रान्तिलब्धानां योगिनां दृढचेतसाम् ।
स्वस्वमध्ये निमग्नानां निरुत्थानं विशेषतः ।। ७९ ।।
निमिषात्प्रस्फुटं भाति दुर्लभं परमं पदम् ।
यस्मिन् पिण्डो भवेल्लीनः सहसा नात्र संशयः ।। ८० ।।
संवित्क्रिया-विकरणोदय-चिद्विलोल-
विश्रान्तिमेव भजतां स्वयमेव भाति ।
ग्रस्ते स्ववेगनिचये पदपिण्डमैक्यं,
सत्यं भवेत्समरसं गुरुवत्सलानाम् ॥ ८१ ॥

॥ इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ

पिण्डपदयोः समरसकरणं नाम पञ्चमोपदेशः ।। ५॥ ।


२४-सजनः ( ह.). ३५–सम्यक् स्वभावकिरणोदयचिद्विलास (तं.).