सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोपदेशः

अथ अवधूतयोगिलक्षणं कथ्यते :-
अवधूतयोगी नाम क इत्यपेक्षायामाह ।
यः सर्वान् प्रकृतिविकारान् अव​धूनोतीत्यवधूतः । योगोऽ
स्यास्तीति योगी । धूञ् कम्पने इति धातुः कम्पनार्थे वर्तते ।
कम्पनं चालनं देह - दैहिक-प्रपंचादिषु विषयेषु संगतं मनः
परिगृह्य तेभ्यः प्रत्याहृत्य स्वधाममहिम्नि परिलीन-
चेताः प्रपञ्चशन्य आदिमध्यान्तनिधनभेदवर्जितः ॥ १ ॥
यकारो वायुबीजं स्याद्रकारो वह्निबीजकम् ।
तयोरभेदओंकारश्चिदाकारः प्रकीर्तितः ॥२।
तदेतद् व्यक्तमुच्यते :-
क्लेशपाशतरङ्गाणां कृन्तनेन विमुण्डनम् ।
सर्वावस्थाविनिर्मुक्तः सोऽवधूतोऽभिधीयते ॥३॥
निजस्मरविभूतियों योगी स्वाङ्गे विभूषितः ।
आधारे यस्य वारुढिः (ढः) सोऽवधूतोऽभिधीयते ।। ४॥
लोकमध्ये स्थिरासीनः समस्त-कलनोज्झितः।
कौपिनं खर्परोऽदैन्यं सोऽवधूतोऽभिधीयते ॥५॥
शं सुखं खं परं ब्रह्म शंखं सर्घट्टनाद् भवत् ।
सिद्धान्तं धारितं येन सोऽवधूतोऽभिधीयते ॥ ६॥
पादुका पदसंवित्ति र्मृगत्वच् महाहतम् ।
वेला यस्य परा संविन्सोऽवधूतोऽभिधीयते ।। ७॥
मेखला निवृत्तिर्नित्यं स्वस्वरूपं कटासनम्
निवृत्तिः षड्विकारेभ्यः सोऽवधूतोऽभिधीयते ॥ ८॥


१-उकारं (तं.). २-निजस्फार (तं.). ३-त्वक् स्यादनाहता (ह.). ४- शेली (ह.), चलं (तं.). ५–निरतिः (तं.).