पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०

नाना-विकल्प-विश्रान्तिं कथया कुरुते तु यः ।
सद्गुरुः स तु विज्ञेयो न तु मिथ्या-विडम्ब​कः ॥ ६७ ॥
अतएव परमपदप्राप्त्यर्थं स सद्वरुः सदा वन्दनीयः
गुरुरिति गृणाति शं सम्यक चैतन्यविश्रान्तिमुपदिशति ।
विश्रान्त्या स्वयमेव परात्परं परमपदमेव प्रस्फुटं भवति
तत्क्षणात्साक्षात्कारो भवति ।। ६८ ॥
अतएव महासिद्धानां मते प्रोक्तं । वाग्मात्रेण वा दृक्पात-
मात्रेण वा सम्यगवलोकनेन वा तत्क्षणान्मुहुर्विश्रान्तिमत्तां
नयतीति ( विश्रान्तियुक्तं करोतीति, ह)
यः स सद्गुरुर्भवति । नो चेन्निजविश्रान्तिं
विना पिण्डपदयोः समरसकरणं न भवतीति सिद्धान्तः ।
तस्मान्निजविश्रान्तिकारकः सद्गुरुरभिधीयते नान्यः ।
पुनर्वागादि-शास्त्रदृष्ट्यानुमानतस्तर्क-मुद्रया भ्रामिको
गुरुस्त्याज्यः ।। ६९ ।।
उक्तश्च :-
ज्ञानहीनो गुरुस्त्याज्यः मिथ्यावादी विडम्बकः ।
स्वविश्रान्तिं न जानाति परेषां स करोति किम् ॥ ७० ॥
शिलया किं परं पारं शिलासंघः प्रतार्यते ।
स्वयं तीर्णो भवेद्योऽसौ परान्निस्तारयत्यलम् ॥ । ७१ ॥
विकल्पसागरात्घोराञ्चिन्ताकल्लोलदुस्तरात् ।
प्रपश्च-वासना-दुष्ट(ग्रह) ग्राहजालसमाकुलात् ।। ७२ ॥
वासना-लहरी-वेगाद्यः स्वं तारियतुं क्षमः।
स्वस्थेनैवोपदेशेन निरुत्थानेन तत्क्षणात् ॥ । ७३ ।।


२१-गुणातिशय (यो.), गुणातीतः (त​.). २२-श्रामको (ह.). २३- नास्वस्थतरितुं क्षयः (त​.).