२९
सम्यक् स्वभावविज्ञानात् क्रमाभ्यासान्न चासनात् ।
न वैराग्यान्न नैराश्यान्नाहार-प्राण-धारणात् ।। ५६ ॥
न मुद्रा-धारणाद्योगान्न मानकर्म-समाश्रयात् ।
न विरक्ता वृथायासान्न कायक्लेशधारणात् ।।५७
न जपान्न तपोध्यानान्न यज्ञात्तीर्थसेवनात् ।
न देवार्चनाश्रयाद्भक्त्या नाश्रमाणाञ्च पालनात् ।। ५८ ।।
न पड्दर्शनकेशादिधारणान्न च मुण्डनात् ।
नानन्तोपाययत्नेभ्यः प्राप्यते परम पदम् ।। ५९॥
एतानि साधनानि सर्वाणि दैहिकानि परित्यज्य परमपदेऽदैहिके
स्थीयते सिद्धपुरुषैरिति ॥। ६०॥
तत्कथं। गुरुदृक्पातनात् प्रायो दृढानां सत्यवादिनां सा स्थिति-
र्जायते ।। ६१॥
कथनाच्छाक्तपाताद्वा पादावलाकनात् ।
प्रसादात् स्वगुरोः सम्यक् प्राप्यते परमं पदम् ।। ६२ ।।
अतएव शिवेनोक्तम् -
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् ।
शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः॥६३॥
वाङ्मात्राद्वाथदृक्पातात् यः करोति च तत्क्षणात् ।
प्रस्फुटं शाम्भवं वेद्यं स्वसंवेद्यं परं पदम् ।। ६४ ।।
करुणाखड्गपातेन छित्वा पाशाष्टकं शि(प)शोः ।
सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते ।। ६५॥
निमिषार्धार्धपाताद्वा यद्वा पादावलोकनात् ।
स्वात्मानं स्थिरमाधत्ते तस्मै श्रीगुरवे नमः ॥ ६६ ॥