पृष्ठम्:साहित्यसारः.pdf/15

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



साहित्यसारे


अवान्तरान्यकार्यस्य प्रस्तुतात्स्वानुयायिनः ।
सद्यस्सम्बन्धविच्छेदे बिन्दुरुच्छेदकारणम् ॥५९॥

प्रकृतार्थप्रकृतयः पञ्चावस्थाभिरन्विताः ।
भरतादिभिरादिष्टा मुखाद्याः पञ्चसन्धयः ||६० ॥

आरब्धस्येह कार्यस्य पञ्चावस्थाः प्रकीर्तिताः ।
अरम्भयत्नप्राप्त्याशानियताप्तिफलोदयाः ॥ ६१ ॥
 
आरम्भस्तद्रता वाञ्छा सा फलोदयनिर्भरा ।
प्रयत्नस्तदलाभेन व्यापारातिशयो महान् ॥ ६२ ॥

सम्पदापत्समायोगात्प्राप्त्याशा तदसंभवात् ।
अपायाभावविभवान्नियताप्तिस्तदागमः ॥ ६३ ॥

समस्तफलनिष्पत्तिर्निरवद्यफलोदयः ।
मुखं प्रतिमुखं गर्भः साविमर्शोपसंहृतिः ॥ ६४ ॥

पूर्वमत्र विनिर्दिष्ठास्त इमे पञ्चसन्धयः ।
बीजोत्पतिर्मुखं नानाभावार्थरससंभवा । ६५ ॥

दृश्यं दृश्यसमुद्भेदस्तस्य प्रतिमुखं भवेत् ।
अस्तव्यस्तस्य सर्वत्र गर्भस्तस्य गवेषणम् ॥ ६६ ॥

छलादवमृशेद्यत्र व्यसनाद्वा विलोभनात् ।
गर्भः स्वर्गीतबीजार्थस्सोवमर्शस्सतां मतः ॥ ६७ ॥

मुखादयस्त्वनेकार्था बीजेनेतस्ततः कृता: ।
एकत्वं यत्र नीयन्ते तत्तु निर्वहणं भवेत् ॥ ६८ ॥

मुखस्य द्वादशाङ्गानि कथ्यन्ते तानि नामतः ।
सोपक्षेपः परेिकर: परिन्यासविलोभने ॥ ६९ ।

युक्तिप्राप्तिसमाधानविधानपरिभावनाः ।
उद्भेदो भेदकरणे लक्षणं त्वभिधीयते ॥ ७० ॥