पृष्ठम्:साहित्यसारः.pdf/14

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



प्रथमः प्रकाशः

पताकाप्रकरीयुक्ताः पताकास्थानयोगतः ।
नायकस्य कथामध्ये तत्समानस्य या कथा ॥ ४७ ॥

आफलोदयमाबन्धा सा पताकेति कथ्यते ।
येन केनाप्यनल्पेन हेतुना पूर्वमुद्गकम् ॥ ४८ ॥

पश्चान्न दृश्यते यत्तु तद्वस्तु प्रकरी भवेत् ।
अतीतेऽनागते कार्ये कथ्यते यत्र वस्तुनः ॥ ४९ ॥

अन्यापदेशव्याजेन पताकास्थानक तु तत् ।
सदसन्मिश्रभेदेन सर्वमेतत्त्रिधा भवेत् ॥ ५० ॥

इतिहासादिसंभूतं सदित्यभिमतं सताम् ।
असदित्युदितं सर्वै: स्वबुद्ध्या कविकल्पितम् ॥ ५१ ॥

अन्यदन्योन्यसंभिन्नं मिश्रमित्यभिधीयते ।
द्विधा विभागः कर्तव्यः सर्वस्यापीह वस्तुनः ॥ ५२ ॥

दृश्यं श्रव्यं सूचनीयमिति संचिन्त्य योग्यताम् ।
गीतरूपगुणोपेतं दृश्यं श्रव्यमुदाहृतम् ॥ ५३ ॥

नीरसं लौकिकापेतमशास्त्रीयं च यद्भवेत् ।
तद्वस्तु सूचनीयं स्यादत्र विष्कम्भकादिभिः ॥ ५४ ॥

साहित्यसारतत्त्वज्ञस्थाने स्थाने पुनः पुनः ।
वस्तु मध्ये पृथक्कृत्वा वस्तुविस्तरहेतवे ॥ ५५ ॥

चतुष्षष्ठ्यङ्गकार्याणि षडेतानि निवेशयेत् ।
अभिप्रेतस्य रचना गोप्यस्य परिगोपनम् ॥ ५६ ॥

प्रकाशनं प्रकाश्यस्य रागसम्पादनोदयः ।
प्रयोगस्य कृतं काव्यं सच्चेतोहारितां व्रजेत् ॥ ५७ ॥

धर्मप्रभूतिकार्यस्य सन्निबन्धाख्यनाटके ।
मन्दमन्दोदितो हेतुर्बीजमित्यभिधीयते ॥ ५८ ॥