पृष्ठम्:साहित्यसारः.pdf/16

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमः प्रकाशः


बीजन्यासविधिस्तज्ज्ञैरुपक्षेप इति स्मृतः ।
शब्दार्थभेदसंयोगवशात्सोऽपि द्विधा भवेत् ॥ ७१ ॥

तद्व्याप्तिगुणबाहुल्यं सर्वे परिकरं विदुः ।
तस्य निष्पत्तिसौन्दर्यं परिन्यासो विधीयते || ७२ ॥

विलोभनं गुणाख्यानं युक्तिरर्थावधारणम् ।
प्राप्तिस्सुखागमोल्लासः समाधानं प्रियोदयः ॥ ७३ ॥

विधानं सुखदु:खाप्तिर्विस्मय: परिभावना ।
उद्भेदो गूढनिर्भेदो भेदो लोभकरं वचः ॥ ७४ ॥

करणं प्रकृतारम्भो मुखाङ्गानि गतान्यथ ।
वक्ष्ये प्रतिमुखाङ्गानि प्रसिद्धानि त्रयोदश ॥ ७५ ॥

उपासनमुपन्यासविलोभौ शमनर्मणी ।
विरोधवर्णसंहारौ सव्रजः परिसर्पकः ॥ ७६ ॥

नर्मद्युतिपरायणे विधूतं पुष्पमेव च ।
उपासनमुपास्यानां विषयेषूपसेवनम् ॥ ७७ ॥

उपन्यास इति प्रोक्तः सोपाया वाक्यसङ्गतिः ।
रत्युत्कर्षो विलासः स्यादाङ्गिको वाथ मानसः ॥ ७८ ॥

शमः प्रियजनोद्भूतमनोदुःखपरिक्षयः ।
उपवासाय रचिता नर्मवाणी निगद्यते ॥ ७९ ॥

निरोधो हि निरोधः स्यादिष्ठक्रोधसमुद्भवः ।
सर्ववर्णोपगमनं वर्णसंहार इष्यते ॥ ८० ॥

अर्थनिष्ठुरवाक्यं तु प्रत्यक्षं वज्रमुच्यते ।
परिसर्पो भवेद्भूयो भूयो बीजानुसर्पणम् ॥ ८१ ॥

प्रीतिनर्मद्युतिः प्रोक्ता सरसा नर्मसंभवा । ।
बुद्धिः परायणं वस्तुन्याबद्धा परमार्थतः ॥ ८२ ॥