सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूमिका। पाञ्चरात्रग्रन्थे सात्वतशास्त्रशब्दस्यैव बहुशो व्यवहार उपलभ्यते-- "एतेषां सात्वतं शास्त्रमुपदेष्टुं त्वमर्हसि" । "तथा दिव्यानि शास्त्राणि सात्वतादीनि चादरात्" "सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् । दिव्यं सच्छास्त्रजालं तदुक्त्वा सङ्कर्षणादिभिः" । "प्रथमं सात्वतं शास्त्रम्"। "सात्वतं पौष्करं चैव जयाख्यं च तथैव च । एवमादीनि दिव्यानि शास्त्राणि हरिणा स्वयम्" ॥ इत्यादिषु । कदाचित् तन्त्रशास्त्रपदयोः पर्यायतां स्वीकृत्य शास्त्रं नाम तन्त्रमित्यर्थं मनसि निधाय शास्त्रकृद्भिर्व्यवहारः कृतो भवेत् । भवतु तत्कथञ्चिदपि । सर्वथा तदेतत्सात्वततन्त्रादर्शनमूलकमेव । अद्याधुना महत्सौभाग्यस्थानमस्माकं यन्नष्टप्रायमिदं सात्वततन्त्रं दृष्टिप- थमायातमिति । इत्थां तत्प्राप्तिप्रकारः । केनचिनिमित्तेन श्रीगुरुवरमहामहो. पाध्यायपद्व्यलङ्कृतपर्वतीयनित्यानन्दपन्तानां गृह आगतैरधुनाब्रह्मभूयं गतैः परिवाड्मूर्धन्यभूतैर्नेपालाभिजनपण्डितगजराजकेसरिमहोदयैर्वा र्ताक्रमेणोक्तं सात्वततन्त्रं पाञ्चरात्रसंहितातो भिन्नमस्माकं निकटे वर्तत इति । कीदृक् तदवश्यमेकवारं द्रष्टव्यमिति गुरुवरैः प्रार्थितेस्तैर्झटिति स्वनिकेतनादानीय प्रदर्शितं, तदृष्ट्वा च सुन्दरमेतदहो महान लाभोऽव- श्यं प्रकाशनीयमेतदस्य प्रकाशनेन च बहोः कालादारभ्य सात्वततन्त्र- विषये स्थितस्य भ्रमस्य निवृत्तिर्भवेदिति निश्चितमेतदिति गुरुभिरुक्ते श्रीयुतगजराजकेसरिभिस्तेषां निकटे तत् संस्थापितम् , तच्च पण्डितमहोदयैस्साहित्याद्यनेकशास्त्राचार्यैः कलिकातास्थशिवकुमार भवनपाठशालाप्रधानाध्यापकैर्भाण्डारिविष्णुप्रसादमहाशयैः संशोधना. र्थं मह्यं प्रदत्तम् । एतच्च पुस्तकं प्राचीनदेवनागरलिपिलिखितं, क्वचित्स्थले खण्डितं, सप्तदशाङ्गुलपरिमितायामयुक्त, सप्ताङ्गुल. विस्तारयुतं, द्विचत्वारिंशत्पत्रपरिमितं प्रतिपत्रमष्टपङ्क्तियुतं प्रतिपङ्क्ति प्रायश्चत्वारिंशदक्षरयुतं, कृष्णरक्तमशीद्वयलिखितं, अधुना जीर्णत्रुटि- तनेपालदेशजलेखनसाधनपत्रयुतं, लेखनकालोल्लेखरहितं, परन्तु पत्रस्व. रूपाक्षरस्वरूपावलोकनेन शतत्रयवर्षेभ्यः प्राक् लिखितमित्यनुमित वर्तते। एतच्च तन्त्रं कैलासशिखरस्थितेन सर्वविद्यानिधानमृतेन शिवेन नारदप्रार्थनातः तं प्रत्युपदिष्टम् । तच्च प्रथमतः श्रीशिवाय श्रीयुत- नारायणेनो. क्तमिति-- "तथापि सारमुद्धृत्य तन्त्ररूपेण नारद ।