सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
सारंवततन्त्रे-


ततस्तद्धर्मनिरतो भगवत्यमलात्मनि।
पामोति परमां भक्तिं सर्वकामप्रदायिनीम् ॥ ३५ ॥
भक्तिं विदित्वा पुरुषो मुक्तिं नेच्छति कश्चन |
सालोक्यादिपदं चापि किमु चान्यसुखं द्विज ॥ ३६ ।।
फलं विना विष्णुभक्ता मुक्तिं यान्ति द्विजोत्तम ।
तत एव विदुर्नान्य आनन्दमयमुत्तमम् ।। ३७ ॥
यतो हरिर्लिखितवत् हृदये वर्ततेसदा ।
तेषां प्रेमलताबद्धः परमान्दविग्रहः ॥ ३८ ॥
इतिश्रीसात्वततन्त्रेऽष्टमः पटलः ।

श्रीनारद उवाच ॥

इयान गुऽणोस्ति देवेश भगवत्पादसेवने ।
कुतो भजन्ति मनुजो अन्यदेवं किमिच्छया ॥ १ ॥

श्रीशिव उवाच ॥

यदाऽऽ दिसत्ये विप्रेन्द्र नरा विष्णुपरायणाः ।
न यजन्ति विना विष्णुिमन्यदेवं कथंचन ॥२॥
तदात्मपूजाप्राप्त्यर्थं सर्वदेवमयं च वै ।
पूजयामो हृषीकेशं कायवाङ्मनसा द्विज ।। ३ ॥
तदा तृष्टो विभुः प्राह देवदेवो रमेश्वरः।
अवतीर्य यजिष्यामि युष्माल्लोकाँश्च याजयन् ॥ ४ ॥
ततः सर्वे जना युष्मान् यजिष्यन्ति समाहिताः
अनेन पूजा युष्माकं भविष्यति सुखावहा ॥ ५ ॥
अहं चोक्तः पृथक् तेन श्रीनिवासेन ब्राह्मण !
कल्पितैरागमैर्नित्यं मां गोपाय महेश्वर ॥ ६ ॥
मदवज्ञापापहरं नाम्नां सहस्रमुत्तमम् ।
पठिष्यास सदा भद्रं प्रार्थितेन मया पुनः ॥ ७ ॥
ततो मे ह्यागमैः कृष्णमाच्छाद्य न तु देवताः ।