ततोऽऽधिकोस्ति को देवः देवकीदेविनन्दनात् ।
यो जगन्मुक्तये कीर्तिमवतीर्य ततान ह ॥ २२॥
अतोऽन्यदेवतापूजां त्यक्त्वा बलिविधानतः ।
सद्गुरोरुपदेशेन भजेत्कृष्णपदद्वयम् ॥ २३ ॥
शृणुयात्प्रत्यहं विष्णोर्यशः परममङ्गलम् ।
उच्चारयेन्मुखेनैव नाम चित्तेन संस्मरेत् ॥ २४ ॥
प्रीतिं कुर्याद्वैष्णवेषु अभक्तेषु विवर्जयेत् ।
दैवोपलब्धं भुञ्जानो नातियत्नं चरेत्सुखे ॥ २५ ॥
गृहेष्वतिथिवत्तिष्ठेद्यद्येतान्नैव बाधते ।
एषां बाघे पृथक्तिष्ठेद्वैष्णवेषु च सङ्गवान् ॥ २६ ॥
ब्रह्मचारी गृही वापि वानप्रस्थो यतिश्च वा ।
विना वैष्णव सङ्गेन नैवसिद्धिं लभेज्जनः ॥ २७ ॥
भक्तसङ्ग विना भक्तिर्नैव जायेत कस्यचित् ।
भक्ति विना न वैराग्यं न ज्ञानं मोक्षमश्नुते ।। २८ ॥
अत आश्रमलिङ्गाश्च हित्वा भक्तेः समं वसेत ।
यत्सङ्गाच्छ्रुतिकीर्तिभ्यां हरौ भक्तिः प्रजायते ॥ २९ ॥
विष्णुभक्तप्रसङ्गस्य निमेषेणापि नारद ।
स्वर्गापवर्गों न साम्यं किमुतान्यसुखादिभिः ॥ ३० ॥
अतो यत्नेन पुरुषः कुर्यात्सङ्गं हरेर्जनैः ।
तिर्यञ्चोऽपि यतो मुक्तिं लभन्ते किमु मानुषाः ॥ ३१ ॥
तत्सङ्गेनैव पुरुषो विष्णुं प्राप्नोति निश्चितम् ।
विना वैराग्यज्ञानाभ्यां यतो विष्णुस्तदन्तिके ॥ ३२ ॥
येषां सङ्गाद्धरेः सङ्गं सकृदाकर्ण्य मानवः ।
परित्यक्तुं न शक्नोति यदि भद्रसरिद्भवेत् ॥ ३३ ॥
अरसज्ञोऽपि तत्सङ्गं यदि याति कथश्चन |
भूत्वा रसज्ञोऽपि महान कर्मबन्धाद्विमुच्यते ॥ ३४ ॥