सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
षष्ठः पटलः


यक्षराट्कोटिधनवान् मरुत्कोटिस्ववीर्यवान् ।
समुद्रकोटिगम्भीरो हिमवत्कोट्यकम्पनः ॥ १८३ ।।
कोट्यश्वमेधाढ्यहरः तीर्थकोट्याधिकाह्रयः ।
पीयूषकोटिमृत्युघ्नः कामधुक्कोट्यभीष्टदः ॥ १८४ ॥
शक्रकोटिविलासादयः कोटिब्रह्माण्डनायकः ।
सर्वामोघोद्यमोऽनन्तकीर्तिनिःसीमपौरुषः ॥ १८५ ॥
सर्वाभीष्टप्रदयशाः पुण्यश्रवणकीर्तनः
ब्रह्मादिसुरसङ्गीततिमानुषचेष्टितः ॥ १८६ ॥
अनादिमध्यनिधनो वृद्धिक्षयविवर्जितः।हनि
स्वभक्तोद्धवमुख्यैकज्ञानदो ज्ञानविग्रहः ॥ १८७ ॥
विप्रशापच्छलध्वस्तयदुवंशोग्रविक्रमः ।
सशरीरजराव्याधस्वर्गदः स्वर्गिसंस्तुतः ॥ १८८ ॥
मुमुक्षुमुक्तविषयिजनानन्दकरो यशः ।
कलिकालमलध्वंसियशाः श्रवणमङ्गलः ॥ १८९ ॥
भक्तप्रियो भक्तहितो भक्तभ्रमरपङ्कजः।।
स्मृतमात्राखिलत्राता यन्त्रमन्त्रप्रभञ्जकः ॥ १९०॥
सर्वसम्पत्स्त्राविनामा तुलसीदामवल्लभः ।
अप्रमेयवपुर्भास्वदनर्ध्याङ्गविभूषणः ॥ १९१ ॥
विश्वैकसुखदो विश्वसज्जनानन्दपालकः ।
सर्वदेवशिरोरत्नमद्भुतानन्तभोगवान् ॥ १९२ ॥
अधोक्षजो जनाजीव्यः सर्वसाधुजनाश्रयः ।
समस्तभयभिन्नामा स्मृतमात्रार्तिनाशकः ॥ १९३ ॥
स्वयशःश्रवणानन्दजनरागी गुणार्णवः ।
अनिर्देश्यवपुस्तप्तशरणो जीवजीवनः ॥ १९४ ॥
परमार्थः परंवेद्यः परज्योतिः परागतिः ।
वेदान्तवेद्यो भगवाननन्तसुखसागरः ॥ १९५ ॥
७सा