सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
षष्ठः पटलः।


जाम्बवार्चितपादाब्जः साक्षाज्जाम्बवतीपतिः।।
सत्यभामाकरग्राही कालिन्दीसुन्दरीप्रियः ॥ १५७ ॥
सुतीक्ष्णशृङ्गवृषभसप्तजिद्राजयूथभित्।
नग्नजित्तनयासत्यानायिकानायकोत्तमः ॥ १५८ ।।
भद्रेशो लक्ष्मणाकान्तो मित्रविन्दाप्रियेश्वरः ।
मुरुजित्पीठसेनानीनाशनो नरकान्तकः ॥ १५९ ॥
धरार्चितपदाम्भोजो भगदत्तभयापहा ।
नरकाहृतदिव्यस्त्रीरत्नवाहादिनायकः ॥ १६० ॥
अष्टोत्तरशतद्व्यष्टसहस्त्रस्त्रीविलासवान् ।
सत्यभामाबलावाक्यपारिजातापहारकः ॥ १६१ ॥
देवेन्द्रबलभिज्जायाजातनानाविलासवान् ।
रुक्मिणीमानदलनः स्त्रीविलासाविमोहितः ॥ १६२ ॥
कामतातः साम्बसुतोऽसङ्ख्यपुत्रप्रपौत्रवान् ।
उशाशागतपौत्रार्थवाणबाहुसस्त्रछित् ॥ १६३ ॥
नन्द्यादिप्रमथध्वंसी लीलाजितमहेश्वरः ।
महादेवस्तुतपदो नृगदुःखविमोचकः ॥ १६४ ।।
ब्रह्मस्वापहरक्लेशकथास्वजनपालकः ।
पौण्ड्रकारित काशिराजशिरोहर्ता सदाजितः ॥ १६५ ॥
सुदक्षिणावताराध्यशिवकृत्यानलान्तकः ।
वाराणसीप्रदहनो नारदेक्षितवैभवः ॥ १६६ ॥
अद्भुतैश्वर्यमहिमा सर्वधर्मप्रवर्तकः ।
जरासन्धनिरोधार्त भुजेरितसत्कथः ॥ १६७॥
नारदेरितसन्मित्रकार्यगौरवसाधकः ।
कलत्रपुत्रसन्मित्रसद्वृत्ताप्तगृहानुगः ॥ १६८ ॥
जरासन्धवधोद्योगकर्ता भूपतिशर्मकृत् ।
सन्मित्रकृत्वाचरितो राजसूयप्रवर्तकः ॥ १६९ ॥