सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
षष्ठः पटलः ।


गोगांपगोपीप्रियकृद्धनभृन्मोहखण्डनः ।
विधातुर्मोहजनकोऽत्यद्भुतैश्वर्यदर्शकः ॥ १३१ ॥
विधिस्तुतपदाम्भोजो गोपदारकबुद्धिभित् ।
कालीयदर्पदलनो नागनारीनुतिप्रियः ॥ १३२ ॥
दावाग्निशमनः सर्वव्रजभृज्जनजीवनः ।
मुञ्जारण्यप्रवेशाप्तकृच्छदावाग्निदारणः ॥ १३३ ॥
सर्वकालसुखक्रीडो बर्हिबर्हावतंसकः ।
गोधुग्वधूजनप्राणो वेणुवाद्यविशारदः ॥ १३४ ॥
गोपीपिधानारुन्धानो गोपीव्रतवरप्रदः ।
विप्रदर्पप्रशमनो विप्रपत्नीप्रसाददः ॥ १३५ ।।
शतक्रतुवरध्वंसी शक्रदर्पमदापहः ।
धृतगोवर्द्धनगिरिर्व्रजलोकाभयप्रदः ॥ १३६ ॥
इन्द्रकीर्तिलसत्कीर्तिर्गोविन्दो गोकुलोत्सवः ।
नन्दत्राणकरो देवजलेशेडितसत्कथः ॥ १३७ ॥
व्रजवासिजनश्लाध्यो निजलोकप्रदर्शकः ।
सुवेणुनादमदनोन्मत्तगोपीविनोदकृत ॥ १३८ ।।
गोधुग्वधूदर्पहरः स्वयशकीर्तनोत्सवः ।
व्रजाङ्गनाजनारामो व्रजसुन्दरिवल्लभः ॥ १३९ ॥
रासक्रीडारतो रासमहामण्डलमण्डनः ।
वृन्दावनवनामोदी यमुनाकूलकोलिकृत् ॥ १४० ॥
गोपिकागीतिकागीत: शङ्खचूडशिरोहरः ।
महासर्पमुखग्रस्तत्रस्तनन्दविमोचकः ॥ १४१ ॥
सुदर्शनार्चितपदो दुष्टारिष्टविनाशकः ।
केशिद्विषो व्योमहन्ता श्रुतनारदकीर्तनः ॥ १४२ ॥
अकूरप्रियकृत् क्रूररजकघ्नः सुवेशकृत ।
सुदामदत्तमालाढ्यः कुब्जाचन्दनचर्चितः ॥ १४३ ॥