सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
सात्वततन्त्रे-


भक्तभ्रमरसङ्घातपीतपादाम्बुजासवः ।
नखचन्द्रमाणज्योत्स्नाप्रकाशितमहामनाः ॥ ११८ ॥
पादाम्बुजयुगन्यस्तलसन्मञ्जीरराजितः ।
स्वभक्तहृदयाकाशलसत्पङ्कजविस्तरः ॥ ११९ ॥
सर्वप्राणिजनानन्दो वसुदेवनुतिप्रियः ।
देवकीनन्दनो लोकनन्दिकृद्भक्तभीतिभित् ॥ १२० ॥
शेषानुगः शेषशायी यशोदानत्तिमानदः ।।
नन्दानन्दकरो गोपगोपीगोकुलबान्धवः ॥ १२१ ॥
सर्वव्रजजनानन्दी भक्तवल्लभववल्लभः । ।
वल्यव्यङ्गलसद्गात्रो बल्लवीबाहुमध्यगः ।। १२२ ॥
पीतपुतनिकास्तन्यः पूतनाप्राणशोषणः ।
पूतनोरस्थलस्थायी पूतनामोक्षदायकः ॥ १२३ ॥
समागतजनानन्दी शकटोच्चाटकारकः ।
प्राप्तविप्राशिषोधीशो लघिमादिगुणाश्रयः ॥ १२४ ॥
तृणावर्तगलग्राही तृणावर्तनिषूदनः ।
जनन्यानन्दजनको जनन्यामुखविश्वदृक् ॥ १२५ ।।
बालक्रीडारतो बालभाषालीलादिनिर्वृतः ।
गोपगोपीप्रियकरो गीतनृत्यानुकारकः ॥ १२६ ॥
नवनीतविलिप्ताङ्गो नवनीतलवप्रियः ।
नवनीतलवाहारी नवनीतानुतस्करः ॥ १२७ ॥
दामोदरोऽर्जुनोन्मूलो गोपैकमतिकारकः ।
वृन्दावनवनक्रीडो नानाक्रीडाविशारदः ॥ १२८ ॥
वत्सपुच्छसमाकर्षी वत्सासुरनिषूदनः ।
बकारिरघसंहारी बालाद्यन्तकनाशनः ॥ १२९ ॥
यमुनानिलसञ्जुष्टसुमृष्टपुलिनप्रियः ।
गोपालबालपूगस्थः स्निग्धदध्यन्नभोजनः ॥ १३० ॥