सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
सात्वततन्त्रे-


कपिराक्षसराजाङ्गमाप्तराज्यनिजाश्रयः
अयोध्याधिपतिः सर्वराजन्यगणशेखरः ॥ ९२ ॥
अचिन्त्यकर्मा नृपतिः प्राप्तसिंहासनोदयः।
दुष्टदुर्बुद्धिदलनो दीनहीनैकपालकः ॥ ९३ ॥
सर्वसम्पत्तिजननस्तिर्यन्यायविवेचकः ।
शूद्रघोरतपाप्लुष्टद्विजपुत्रैकजीवनः ॥ ९४ ॥
दुष्टवाक्क्लिष्टहृदयः सीतानिर्वासकारकः ।
तुरङ्गमेधक्रतुयाट् श्रीमत्कुशलवात्मजः ॥ ९५ ॥
सत्यार्थत्यक्तसौमित्रिः सून्नीतजनसङ्ग्रहः ।
सत्कर्णपूरसत्कीर्तिः कीर्त्यालोकाधनाशनः ॥ ९६ ॥
भरतो ज्येष्ठपादाब्जरतित्यक्तनृपासनः ।
सर्वसद्गुणसम्पन्नः कोटिगन्धर्वनाशकः ॥ ९७ ॥
लक्ष्मणो ज्येष्ठनिरतो देववैरिगणान्तकः ।
इन्द्रजित्प्राणशमनो भ्रातृमान् त्यक्तविग्रहः॥ ९८॥
शत्रुघ्नोऽमित्रशमनो लवणान्तककारकः ।
आर्यभ्रातृजनश्लाध्यः सतां श्लाघ्यगुणाकरः ॥ ९९ ॥
वटपत्रपुटस्थायी श्रीमुकुन्दोऽखिलाश्रयः ।
तनूदरोर्पितजगन्मृकण्डतनयः खगः ॥१००॥
आयो देवगणाग्रण्यो मितस्तुतिनतिप्रियः ।
वृत्रघोरतनुत्रस्तदेवसन्मन्त्रसाधकः ॥ १०१॥
ब्रह्मण्यो ब्राह्मणश्लाघी ब्रह्मण्यजनवत्सलः ।
गोष्पदाप्सुगलद्गात्रवालखिल्यजनाश्रयः ॥ १०२॥
दौस्वस्तिर्यज्वनां श्रेष्ठो नृपविस्मयकारकः ।
तुरङ्गमेघबहुद्दान्यगणशेखरः ॥१०३ ॥
वासवीतनयो व्यासो वेदशाखानिरूपकः ।
पुराणभारताचार्यः कलिलोकहितैषणः ॥१०४ ।।