सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
षष्ठः पटलः।


निखिशपाणिर्वीरेशोऽपरिमेयपराक्रमः ।
विश्वामित्रगुरुर्धन्वी धनुर्वेदविदुत्तमः ॥ ७९ ॥
ऋजुमार्गनिमित्तेषु सङ्घताडितताडकः ।
सुबाहुर्बाहुवीर्याढ्यबहुराक्षसघातकः ।। ८०॥
प्राप्तचण्डीशदोर्दण्डचण्डकोदण्डखण्डनः ।
जनकानन्दजनको जानकीप्रियनायकः ।। ८१ ॥
अरातिकुलदर्पघ्नो ध्वस्तभार्गवविक्रमः ।
पितृवाक्त्यक्तराज्यश्रीर्वनवासकृतोत्सवः ॥ ८२ ।।
विराघराघदमनश्चित्रकूटाद्रिमन्दिरः ।
द्विजशापसमुच्छन्नदण्डकारण्यकर्मकृत् ॥ ८३ ॥
चतुर्दशसहस्रोग्रराक्षसघ्नः खरान्तकः ।
त्रिशिरःप्राणशमनो दुष्टदूषणदूषणः ॥ ८४ ॥
छद्ममारीचमथनो जानकीविरहार्तिहृत् ।
जटायुषः क्रियाकारी कबन्धवधकोविदः ॥ ८५ ॥
ऋष्यमूकगुहावासी कपिपञ्चमसख्यकृत् ।।
वामपादाग्रनिक्षिप्तदुन्दुभ्यस्थिबृहगिरिः ॥ ८६ ॥
सकण्टकारदुर्भेदसप्ततालमभेदकः ।
किष्किन्धाधिपवालिघ्नो मित्रसुग्रीवराज्यदः ॥८७॥
आञ्जनेयस्वलाङ्गुलदग्धलङ्कामहोदयः ।
सीताविरहविस्पष्टरोषक्षोभितसागरः ॥ ८८ ॥
गिरिकूटसमुत्क्षेपसमुद्राद्भुतसेतुकृत् ।
पादप्रहारसन्त्रस्तबिभीषणभयापहः ॥ ८९ ॥
अङ्गदोक्तिपरिक्लिष्टघोररावणसैन्यजित् ।
निकुम्भकुम्भधूम्राक्षकुम्भकर्णादिवीरहा ॥ ९० ॥
कैलाससहनोन्मत्तदशाननशिरोहरः।
अग्निसंस्पर्शसंशुद्धसीतासम्वरणोत्सुकः ॥ ९१ ॥
सांग