सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
सात्वततन्त्रे-


महाकूर्मो विश्वकायः शेषभृक् सर्वपालकः ।
लोकपितृगणाधीशः पितृस्तुतमहापदः ॥ ४० ॥
कृपामयः स्वयं व्यक्तिर्धुवप्रीतिविवर्द्धनः ।
ध्रुवस्तुतपदो विष्णुलोकदो लोकपूजितः ॥ ४१॥
शुक्लः कर्दमसन्तप्तस्तपस्तोषितमानसः ।
मनोऽभीष्टप्रदो हर्षबिन्द्वंचितसरोवरः ॥ ४२ ॥
यज्ञः सुरगणाधीशो दैत्यदानवघातकः ।
मनुत्राता लोकपालो लोकपालकजन्मकृत् ॥ ४३ ।।
कपिलाख्यः साङ्ख्यपाता कर्दमाङ्गसमुद्भवः ।
सर्वसिद्धगणधीशो देवहुतिगतिप्रदः ॥ ४४ ॥
दत्तोऽत्रितनयो योगी योगमार्गप्रदर्शकः ।
अनसूयानन्दकरः सर्वयोगिजनस्तुतः ॥ ४५ ॥
नारायणो नरऋषिर्धर्मपुत्रो महामनाः ।
महेशशूलदमनो महेशैकवरप्रदः ॥ ४६॥
आकल्पान्ततपोधारो मन्मथादिमदापहः ।
ऊर्वशीसृग्जितानङ्गो मार्कण्डेयप्रियप्रदः ॥ ४७ ॥
ऋभवो नाभिसुखदो मेरुदेवीप्रियात्मजः ।
योगिराजद्विजस्रष्टा योगचर्यापदर्शकः ॥ ४८ ।।
अष्टबाहुर्दक्षयज्ञपावनोऽखिलसत्कृतः ।
दक्षेशद्वेषशमनो दक्षज्ञानप्रदायकः ॥ ४९ ॥
प्रियव्रतकुलोत्पन्नो गयनामा महायशाः ।
उदारकर्मा बहुविन्महागुणगणार्णवः ।। ५० ॥
हंसरूपी तत्त्ववक्ता गुणागुणविवेचकः ।
धातृलज्जाप्रशमनो ब्रह्मचारिजनप्रियः ॥ ५१॥
वैश्यः पृथुः पृथ्विदोग्धा सर्वाजीवनदोहकृत् ।
आदिराजो जनावासकारको भूसमीकरः ।। ५२ ।।