सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
पञ्चमः पटलः।


निरालम्ब सावलम्ब सर्वान्तर्यामिधारणम् ॥ ६ ॥
तत्षडङ्गयुतं कुर्यात्समाध्यवधिमुत्तमम् ।
दुःखग्रहं निरालम्बं प्रथमं शृणु सत्तम ॥ ७ ॥
अहिंसा ब्रह्मचर्यं च सत्यं लज्जा ह्यकार्यतः ।
अस्तेयोऽसञ्चयो मौनमसङ्गमभयं दया ॥ ८॥
धर्मे स्थैर्यं च विश्वासो यमा द्वादश सत्तम ।
यमा(१)द्यमङ्गं प्रथमं कुर्याख्याता ह्यतन्द्रितः ॥९॥
देहशौचं मनःशौचं जाप्यं होमं तपो व्रतम् ।
श्राद्धमतिथिशुश्रूषां तीर्थसेवां सुतुष्टिदाम् ॥ १० ॥
परार्थेहां गुरोः सेवां द्विषड्नियमसंज्ञितम् ।
कुर्याद्ध्यानं द्वितीयाङ्गं तृतीयाङ्गं च मे शृणु ॥ ११ ॥
स्वजानुलग्ने पादाग्रे कुर्याज्जोऽन्तरान्तरे ॥
उत्सङ्गमध्ये हस्तौ द्वौ तत्स्थानमासनं स्मृतम् ॥ १२ ॥
प्रणवेनैव मन्त्रेण पूरकुम्भकरेचकैः ।
विपर्ययेण वा कुर्यात्तुर्याङ्गं प्राणसंयमम् ॥ १३ ॥
विषयेभ्यस्त्विन्द्रियाणां संयमं मनसा हदि ।
कुर्यादतन्द्रितो योगी प्रत्याहारं तु पञ्चमम् ॥ १४ ॥
प्राणेन मनसः साक्षात्स्थ्यैर्य्यं ध्यानामुत्तमम् ।
कुर्यात्समाहितो योगी स्वनासाग्रावलोकनः ॥ १५ ॥
तेजोमयं स्वप्रकाशमवाङ्मनसगोचरम् ।
लक्षीकृत्य धिया तिष्ठेद्यावन्नैव प्रकाशते ॥ १६ ॥
एवं चाहरहः कुर्वन्योगी संशुद्धकिल्विषः ।
चिरात्माप्नोति परमां समाधिं ब्रह्मणः पदम् ॥ १७ ॥
सावशेषं हरेध्यानं शृणु विप्र समासतः ।
तेनैव विधिना युक्तो मनसा चिन्तयेद्यथा ॥ १८ ॥


(१) यमाचं यमरूपं आधं प्रथमङ्गमित्यर्थः