सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
सात्वततन्त्रे-


तेषु प्रीतिर्महाभाग दुष्करेति मयोच्यते ॥ ८६ ॥
हरिलीलाश्रुतोचारपरेषु सततं त्वया।
कार्या प्रीतिस्तव हरेर्यथा भक्तिर्न नश्यति ॥ ८७ ॥
इत्येतत्कथितं विप्र साधूनां लक्षणं पृथक् ।
भक्तेषु प्रीतिकरणं जनानां मुक्तिकारणम् ॥ ८८ ॥
साधनेन मया बाल भक्तिभेदो निरूपितः ।
स सार्ववर्णिकः शुद्धः सर्वाश्रमिश्रमापहः ।। ८९ ॥
सर्वकालभवो नित्यः सर्वदैशिकसिद्धिदः ।
चतुर्युगेष्वभिमतो भगवत्प्रियसाधकः ॥ ९ ॥
इति सात्वततन्त्रे चतुर्थः पटलः ॥

अथ पञ्चमः पटलः ।
श्रीनारद उवाच ।।

कथितं मे सुरगुरो भगवद्भक्तिलक्षणम् ।
चतुर्युगेऽप्यभिमतं सर्व लोकसुखावहम् ॥ १ ॥
अधुना वद देवेश जनानां हितकाम्यया ।
युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ २॥
प्रजानां लक्षणं विष्णोर्मूर्तिलिङ्ग पृथग्विधम् ।
धर्मं च नामसङ्ख्या च समासेन सुरेश्वर ॥ ३ ॥

श्रीशिव उवाच ॥

कृते युगे प्रजाः सर्वाः शुद्धा रागादिवर्जिताः ।
औत्पत्तिकेन योगेन शान्ताः शमदृशो मताः॥४॥
तेषां तु भगवद्ध्यानं संसारार्णवतारकम् ।
तदेव परमो धर्मस्तद्युगस्य महामते ॥५॥
तद्ध्यानं त्रिविधं प्रोक्तं दशभिनामाभिर्युतम् ।