सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
चतुर्थः पटलः ।


हरिप्रीतिपरा एते भक्ता लोकप्रणामकाः ॥ ७३ ॥
भक्तानां लक्षणं ह्येतत्सामान्येन निरूपितम् ।
इदानीमात्मजिज्ञास्य लक्षणं त्रिविधं शृणु ॥ ७४ ॥
सर्वात्मानं हरिं ज्ञात्वा सर्वेषु प्रीतिमान्नरः ।
सेवापरो द्वेषहीनो जनेषु स च सत्तमः ।। ७६ ॥
ज्ञात्वापि सर्वगं विष्णुं तारतम्येन प्रीतिमान् ।
श्रेष्ठमध्यमनीचेषु ह्यात्मनः स तु मध्यमः ॥ ७६ ॥
प्रतिमादिष्वेव हरौ प्रीतिमान्न तु सर्वगे।
प्राणिप्राणवधत्यागी प्राकृतः स तु वैष्णवः ॥ ७७ ।।
यस्येन्द्रियाणां सर्वेषां हरौ स्वाभाविकी रतिः
स वै महाभागवतो ह्युत्तमः परिकीर्तितः ॥ ७८ ॥
यस्य यत्नेनेन्द्रियाणां विष्णौ प्रीतिर्हि जायते ।
सवै भागवतो विप्रः मध्यमः समुदाहृतः ॥ ७९ ॥
यस्येन्द्रियैः कृष्णसेवा कृता प्रीतिविवर्जिता ।
स प्राकृतो भागवतो भक्तः कामाविवर्जितः ॥ ८० ॥
हरिलीलाश्रुतोच्चारं यः प्रीत्या कुरुते सदा ।
स वै महाभागवतो ह्युत्तमो लोकपावनः ॥ ८१ ॥
श्रवणं कीर्तनं विष्णौ प्रीत्यायासौ तु यो नरः ।
कुर्यादहरहः शाश्वत् प्रीतिमान् स च मध्यमः ॥ ८२ ॥
यामैकमात्रं यः कुर्याच्छ्रवणं कीर्तनं हरेः ।
प्रीत्या विष्णुजनद्वेषहीनः प्राकृत उच्यते ॥ ८३ ॥
यद्यन्यलक्षणं चान्य भक्ते लक्ष्येत सज्जनैः ।
तथापि निष्ठामालक्ष्य तं तं जानीहि सत्तम ॥ ८४ ॥
यद्धर्मनिष्ठा ये भक्ता भवन्ति द्विजसत्तम ।
तत्प्रसङ्गाद्यनुष्ठानं तत्प्रीतेः कारणं परम् ।। ८५ ॥
तथापि निर्गुणा ये च ये च भागवता मताः ।