सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
चतुर्थः पटलः।


सर्वसाधनमुख्या हि गुरुसेवा सदादृता ।
यया भक्तिर्भंगवति ह्यञ्जसा स्यात्सुखावहा ॥ ११ ॥
तस्मात्सर्वप्रयत्नेन गुरोर्वागादरेण वै । ।
कार्या सैव तु तत्सर्वा भगवद्भक्तिवर्द्धिनी ॥ १२॥
निर्गुणा(१) भक्तिनिष्ठेन कार्या भूतदया सदा ।
भागवत्यां कायमनोवचसां परिनिष्ठिता ॥५३॥ी
प्रेममय्यां सतां प्रीत्या श्रवणं यशसां हरेः ।
मुख्याः साधनसम्पत्यः कथितास्ते द्विजोत्तम ॥ १४ ॥
सर्वमूलं कृष्णपादशरणं परिकीर्तितम् ।
यद्विना स्रवते भक्तिरामभाण्डात्पयो यथा ॥ ५५ ॥

श्रीनारद उवाच ॥

कृष्णपादाब्जशरणं वद मे बहुवित्तम ।
विना येन पुमान् याति कुर्वन् भक्तिमपि श्रमम् ॥ ५६ ॥

श्रीशिव उवाच ॥

कायवाङ्मनसां साक्षात्कृष्णे परमपूरुषे ।
परिनिष्ठाऽऽश्रयं यद्वै शरणं परिकीर्तितम् ॥ १७ ॥
एतद्वै त्रिविधं प्रोक्तं वेदविद्भिर्द्विजोत्तम ।
प्रथमं मध्यम श्रेष्ठं क्रमशः शृणु तन्मुने ॥ ५८॥
धर्मे तीर्थे च देवादौ रक्षकत्वमघादितः ।
यद्बुद्धिनिष्ठितं कृष्णे कृतं तत्प्रथमं स्मृतम् ॥ १९ ॥
कलत्रपुत्रमित्रेषु धने गेहगवादिषु ।
यन्ममत्वाश्रयं कृष्णे कृतं तन्मध्यमं स्मृतम् ॥ ६ ॥
देहादावात्मनो यावदात्मत्वाश्रयणादि यत् ।
तत्सर्वं कृष्णपादाब्जे कृतं श्रेष्ठं प्रकीर्तितम् ॥ ६१॥


(१) उपरितनश्लोकस्थकार्येत्यनेनान्विति ।