सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
तृतीयः पटलः।


किं वा वैकुण्ठलोकेशः श्रीकृष्णः पुरुषोत्तमः ।
किमेकतत्वमेतेषामथवा किं पृथक् पृथक् ॥ ३७ ॥

श्रीशिव उवाच ॥

श्रृणु तत्परमं गुह्यं ब्रह्मदायाद सत्तम ।
अवतारिस्वरूपं मे यथावर्णयतो द्विज ॥ ३८ ॥
एकमेव परं तत्वमवतारि सनातनम् ।
श्रीकृष्णब्रह्मपुरुषैः संज्ञाभिर्दीयते पृथक् ॥ ३९ ॥
यथा भानोः प्रकाशस्य मण्डलस्यापृथक्स्थितिः ।
तथा श्रीकृष्णदेवस्य ब्रह्मणः पुरुषस्य च ॥ ४० ॥
अतः सात्वततन्त्रज्ञा भक्तिनिष्ठा विलक्षणाः ।
श्रीकृष्णाख्यं परं धाम परमानन्दमुत्तमम् ॥ ४१ ।।
वैकुण्ठलोकनिलयं शुद्धसत्वात्मविग्रहम् ।
वदन्ति शाश्वतं सत्यं स्वभक्तगणसेवितम् ॥ ४२ ॥
वेदान्तिनो ज्ञाननिष्ठा ज्ञानशास्त्रानुसारतः ।
वदन्ति ब्रह्म परमं प्रकाशात्मकमव्ययम् ॥ ४३ ॥
अपाणिपादनयनश्रोत्रत्वग्घ्राणविग्रहम् ।
सर्वशक्तियुतं तेजोमयं (१)वामनसापदम् ॥ ४४ ।।
आनन्दमात्रं संशुद्धं चिद्व्यक्तं सर्वकारणम् ।
हैरण्य(२)गर्भास्त्रैविद्या नारायणमनामयम् ॥ ४५ ॥
सहस्रशिरसं देवं परमानन्दमव्ययम् ।
अनन्तशक्तिं सर्वेषां पुरुषं प्रकृतेः परम् ॥ ४६ ॥
वदन्ति कर्मपरमाः स्थित्युत्पत्यन्तभावनम् ।
सर्वानन्दकरं शान्तं संसारार्णवतारकम् ॥ ४७ ॥
अतः कृष्णस्य देवस्य ब्रह्मणः पुरुषस्य च ।


(१)वाङ्मनसागोचरमित्यर्थः ।
(२) अनयोः वदन्ति' इति द्वितीयश्लोकगतेनान्वयः ।