सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
सात्वततन्त्रे-


एषां प्रकाशो यत्रासीत्स पूर्ण परिकीर्तितः ।
अंशप्रकाशादंशः स्यात्कलायास्तु कला स्मृता ॥२५॥
विभूतेस्तु विभूतिः स्यादेष भेदो न हि स्वतः ।
निर्विकल्पस्य सत्यस्य परब्रह्मस्वरूपिणः ॥ २६ ॥
नारायणस्य शुद्धस्य श्रीकृष्णस्य महात्मनः ।
यतः कृष्णावतारेण भगभेदाः पृथक् पृथक् ॥ २७ ॥
सन्दर्शिताः पृथक्कार्ये तस्मात्सम्पूर्ण उच्यते ।
हयग्रीवाद्यवतारे तस्मादल्पतरा यतः ॥ २८ ॥
दर्शिता भगभेदा वै तस्मादंशाः प्रकीर्तिताः ।
यतो रामो मत्स्यकूर्मवराहा नरकेशरी ॥ २९ ॥
मन्वन्तरावताराश्च यज्ञाद्या हयशीर्षवान् ।
तथा शुक्लादयो ह्याविर्भावा ऋषभ आत्मवान् ॥ ३० ॥
नरनारायणो दत्तः कलौ च बुद्धकल्किनौ ।
ज्ञानकर्मप्रभावाधैरंशा विष्णोः प्रकीर्तिताः ॥ ३१ ॥
कुमारनारदव्यासा ब्रह्मरातादयः कलाः ।
ज्ञानांशयुक्ताः श्रीविष्णोरवतारा महात्मनः ॥ ३२ ॥
गयः पृथुश्च भरतः शक्तियुक्ताः कला मताः।
गुणावतारा ब्रह्माद्यास्तदंशा ये विभूतयः ॥ ३३ ॥
एषा मया ते कथिता सम्पूर्णांशकलाभिदा ।
कार्यानुरूपा विप्रेन्द्र भगभेदप्रदर्शनात् ॥ ३४ ॥
न ब्रह्मणो भिदा विप्र श्रीकृष्णस्य च सत्तम ।
नारायणस्य वा सौम्य ह्यवतारिस्वरूपिणः ॥ ३८॥

श्रीनारद उवाच ।

अवतारिस्वरूप में वर्णयस्व सदाशिव ।
किं ब्रह्म परमं साक्षात्किं वा नारायणो विभुः ॥२६॥