सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
सात्वततन्त्र-


निर्विकल्पस्य कृष्णस्य ब्रह्मणः परमात्मनः from
कथमंशकलाभाग एतद्वर्णय नो विभो ॥२॥

श्रीशिव उवाच ।

सत्यमुक्तं त्वया ब्रह्मन् कृष्णस्य जगदात्मनः ।
अवतारेषु सर्वेषु भेदादंशकलाः स्वतः ॥ ३ ॥
न वर्णयन्ति निपुणा ज्ञानिनो भगवत्पराः ।
अविकारादच्युताच्च निर्भेदाब्रह्मरूपिणः ॥ ४ ॥
किन्तु ज्ञानप्रभावादेः पूर्णाशांशानुदर्शनात् ।
पूर्णमशकलाभागं वदन्ति जगदीशितुः ॥ ५ ॥
सन्ति यद्यपि सर्वत्र ज्ञानवीर्यगुणादयः ।
तथापि कार्यतः केचिदृश्यन्ते नहि सर्वतः ॥ ६ ॥
ऐश्वर्यज्ञानधर्माश्च वैराग्यं श्रीर्यशस्तथा ।
एषां सन्दर्शनासाक्षात्पूर्णो विद्वद्भिरुच्यते ॥७॥
एतेषामपि भागानामल्पाल्पदर्शनादसौ।
विभात्यंशकलाभेदो भगवान्भगभेदधृक् ॥ ८॥
अंशस्तुरीयो भागः स्यात्कला तु षोडशी मता।
शतभागो विभूतिश्च वर्ण्यते कविभिः पृथक् ॥ ९ ॥
अतो ज्ञानस्य धर्मस्य वैराग्यश्वर्ययोः श्रियः ।
यशसः पृथग्भेदं मत्तः शृणु द्विजोत्तम ॥ १० ॥
उत्पत्तिप्रलयौ चैव विद्याविधे (१)गताऽगती ।
एषां ज्ञानं वदन्त्यङ्ग ज्ञानं षड्विधमुत्तमम् ॥ ११ ॥
सत्यं शौचं दया मौनं धर्मश्चातुर्विधः(२) स्मृतः ।
अमानो व्यतिरेकश्च ऐन्द्रियस्तु वशीकृतः ॥ १२ ॥


(१) गतं गतिरित्यर्थः।
(२) चतुर्विध एव चातुर्विध इति स्वार्थेऽण बोध्यः ।