सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
द्वितीयः पटलः।


जातो द्वि(१)षण्मनुयुगे युगपालनाय
विप्रात्स्वशक्तिमहसः सुनृत्ताख्यतो वै ॥ ७० ॥
ख्यातो भविष्यति ततो भगवान्स्वधामा
यस्माज्जना जगति सौख्यमपारमापुः
भाव्ये त्रयोदशथुगे भविताऽऽदिदेवः
श्रीदेवहोत्रतनयो भगवान्बृहत्याम् ॥ ७१ ॥
योगेश्वरो दिवि दिवस्पतिशक्रमित्रो
योगादमेयवपुषा स वितान(२)तुल्यः ॥
सत्रायणस्य सदने भगवाननादि-
देवोऽपि देववनितातनयोऽभिजातः ॥ ७२॥
अन्तेऽन्तरे करणकर्मवितानतन्तून्
विस्तारयिष्यति जगद्धितकामशील: ॥
एते मया भगवतः कथिता द्विजाते
शुद्धावतारनिचया जगतो हितार्थाः॥2
सम्पूर्णतांशकलया परिभावनीया
ज्ञानक्रियाबलसमादिभिराभिव्यक्ताः ॥ ७३॥
यल्लीलातनुभिर्नित्यं पाल्यते सचराचरम् ॥
तमहं शरणं यामि कृष्णं ब्रह्माण्डनायकम् ॥ ७४ ॥
इति श्रीसात्वततन्त्रे द्वितीयः पटलः ॥


अथ तृतीय पटलः
श्रीनारद उवाच ।

कथिता भगवान्विष्णोरवतारा महात्मनः ।।
सम्पूर्णांशकलाभेदैर्भावनीयास्त्वया प्रभो ॥१॥


(१) द्विषण्मनुयुगे--द्वादशमन्वन्तरे इत्यर्थः।
(२)वितानं-क्रतुः। देसा