सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
द्वितीयः पटलः।


कामेन स्नेहभयरागकुटुवबसन्धे

यस्मिन्मनो निवसतः शमलं निरस्प

दाता स्वरूपममलं परिशुद्धभावः

साक्षात्स्वरूपनिरतस्य च किन्नु वक्ष्ये ॥ ५८ ।।

यत्पादपङ्कजपरागपरायणाना-

मग्रे चकास्ति न च मुक्तिसुखं नितान्तम् ।।

किं वान्यदर्पितभयं खलु कालवेगैः

साक्षान्महासुखसमुद्रगतान्तराणाम् ॥ ५९ ॥

गङ्गादितीर्थतपहोमत्रतादिकेभ्यः

कीर्ति स्वकी(१)यमधिकां समुर्दीय लोके ।।

अत्युन्नतं द्विजकुलं (२)द्विजशापव्याजा-

द्धत्वा स्वलोकममलं तनुनाभिगन्ता ॥ ६० ॥

तस्माद्भविष्यति सुतः सुखदो जनानां

प्रद्युम्नसञ्ज्ञ उरु(३)गायगुणानुरूपः ॥ ११ ॥

कर्ता मुदं मुदितवसुचारुगात्रैः

पात्रैरिवामृतपयो मनुजान्प्रच्छन् ।

तत्राप्य जोऽनुजनिताप्यनिरुद्ध नामा.

नाम्नां प्रवर्तकतया मनसीश्वरोऽपि ॥ १२ ॥

यस्मादुषाऽऽहरणतो भुजवीर्यनाशा.

द्वाणो भविष्यति शिवानुगशान्तदेहः ॥

व्यासाद्भविष्यति०० भगवानरण्यां

योगी जनान्प्रति गदिष्यति वेदसारम् ॥ ६ ॥

श्रीमत्सुशान्तममलं भगवत्प्रणीतं

यच्छ्रद्धया कलिजना अपि यान्ति शान्तिम् ॥

(१) अस्य द्विजकुलपदेनान्वयः। (२) द्विजकुलम्-यादवकुलमित्यर्थः।
(३) उरुगायो-भगवान श्रीकृष्णः ।