सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
सात्वततन्त्र-



वृन्दावने सुरभिवाद्यविलासगीतै
र्गोधुग्वधूजनमनोजजवं दधानः ||
कर्ता महामदनकलिविहारगोष्ठी-
विस्मापनं निशि निशाचरखेचराणाम् ॥ ५२ ॥
कंसस्य रङ्गसदनं सबले प्रणीते
स्वा(१)फल्किना भवधनुस्तरसा विभज्य ।
चाणूरशूरशमनं सहकंसमाजौ
कर्ता द्विपं कुवलयं सहसा निहत्य ॥ ५३ ॥
सान्दीपनं मृतसुतं गुरुदक्षिणार्थी
दत्वा जरासुतबलं यवनं च हत्त्वा ॥
श्रीरुक्मिणीप्रभृतिदारशतं विवाह्य
ताभ्यः सुतान् दशद शानु जनिष्यति स्म ॥५४॥
भौमं निहत्य सगणं दिवि देवमातु
र्दातुं तदीयमणिकुण्डलमादिदेवः ॥
गत्वा सुरेन्द्रतरुराजवरं प्रियायाः
प्रीतो समुद्धरणतो दितिजान्स जेता ।। ५५॥
बाणासुरस्य समरे मम वीर्यनाशा-
ल्लुब्धामरत्वमाधिकं युधि भूपबन्धून् ।
जित्वा युधिष्ठिरनृपक्रतुना विवाह-
बीजं नि(२)पात्य गुरुभारतरं प्रहर्ता ॥ ५६ ॥
लोके प्रदर्श्य सुतरां द्विजदेवपूजां
स्वस्याप्यपारकरुणां निजसेवकेभ्यः ॥
त्रात्वा परीक्षितनृपं परमास्त्रदग्धं
पार्थाय भूतिमवलोकयिता द्विजार्थे ॥ ५७ ॥

(१) अक्रूरेण ।
(२) निपात्य-सम्पाद्येत्यर्थः । धातूनामनेकार्थत्वात्।