तीर्त्वा गाङ्गपयोऽनुजानु(१)गमनाच्छ्रीचित्रकूटं गिरिं
त्यक्त्वा दुष्टविराधराधदमनो धावन् धनुर्धारयन् ॥
हत्वा (२)क्रूरसुरेन्द्रवैरिहरिणं मारीचसंज्ञं ततो
लङ्केशाहृतसीतया खलु पुनः प्राप्तो दृशामीदृशाम् ॥ ३५ ।।
चन्द्रं चण्डकरं प्रचण्डपवनं मेने सुमन्दानिलं
मालां मालतिमल्लिकां (3)शुचिकलां गीतं स्फुलिङ्गायितम् । '
इत्येवं वनितापरायणनरं हास्यन्निवालोकयन्
ऋक्षं मन्मथसायकाहृतमनो रेमे प्रियाशङ्कया ।। ३६ ।।
गत्वा वानरराजवालिनमहामित्रेण सेतुं ततो
बध्वा वारिधिमातरत्तरतमं साकं प्लवङ्गैर्मुदा ।
छिवा राक्षसयक्षलक्षममला सीता (४)सपुत्रानुजं
लङ्केशं ज्वलदग्निना भगवता चाप्ता पुनः सा पुरी ।। ३६ ।।
सूर्यादिशक्तिमविहृत्य शशास भूमिं
गोविप्रपाज्ञपरिसेवनसर्वधर्मः ।
उद्विक्तभक्तिनमिताननयत्स्वनाथान्
सर्वान् (६)वनाधिवसतः स्वपदं सुशान्तम् ॥ ३८ ॥
तस्थानुजो भरतसंज्ञ उदारबुद्धी.
रामाज्ञया निजगृहे निवसन्नपि श्रीम् ।
त्यक्त्वा वनस्थव्रतवानभवत्ततो वै
गन्धर्वकोटिमथनं विहरँश्चकार ॥ ३९ ॥
श्रीलक्ष्मणस्तदवरो वनमेश्य रामं
सीतां निषेव्य तपसा बहुकष्ट आसीत् ।
(१) अनुजस्य-भरतस्य । अनुगमनात्-आगमनात् ।
(२) क्रूरो यः सुरेन्द्रवैरी दशाननस्तस्य हरिणं मृगमित्यर्थः ।
(३) शुचिकलाम् वन्हिकलाम । चित्रभानुर्विभावसुः । शुचिर.
पित्तमित्यमरात् ।
(४) अस्य-आप्तापदेनाम्धयः ।
(५) वनवासिन इत्यर्थः ।
-
-