सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
सात्वततन्त्रे-


धृत्वाऽसुरेन्द्रमसुरेन्द्रविशालतीव्र
वक्षस्थलं स्थलमिवाग्रनखैर्देदार ॥ २९ ॥
यस्मिन्प्रपश्यति बलिः सगणं त्रिलोकं
तेनापि वामनतनुं भगवान गृहीत्वा ।
संयाच्य सम्मितपदत्रितयं बलेः स्वं
कृत्वा त्रिविष्टपमदाददितेः सुतेभ्यः ॥ ३०॥
भक्तानहं समनुवर्त इति स्ववाचं
साक्षात्प्रकर्तुमिव भूविवरे प्रविष्टः ॥
वैरोचनेर्गृहमरक्षयदप्रमेयो
नाम्ना गदाधर इति क्षपयन् दयावान् ॥ ३१ ॥
भूत्वा तु भार्गवकुले निजतातनाशा-
द्रामो महापरशुकं परिगृह्य तीक्ष्णम् ।
क्षत्रं निवार्य क्षितितलं परिह्रत्य भूयो
दत्त्वा द्विजाय ह्यवसत्स महेन्द्रपृष्ठे ॥ ३२ ॥
(१)वृन्दारकैः परिनिषेवितपादपद्मः
श्रीरामचन्द्र इति सूर्यकुलाब्धिजातः ।
देवारिनाशनविधौ कुशिकान्वयेन(२)
नीतो महेशधनुराजगवं बभञ्ज ॥ ३३ ॥
ज्ञात्वा ततो भृगुकुलोद्भवधीरवीरं
रामं सुगौररुचिरां परिणीय सीताम् ।
गत्वा गृहान् गृहपतेः पितुराप्तजाया(३)-
वाचं निशम्य वनवासमगात्सभार्यः ॥ ३४॥


(१) वृन्दारको देवैः।
(२) विश्वामित्रेण ।
(३) आप्तजायावाचम् कैकेयीवचः ।