सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीयः पटलः।


वैकुण्ठदर्शनमकारयदप्रमेय
स्तस्याउ पञ्चममनोस्समये प्रसिद्धम् ॥ २३ ॥
षष्ठेऽन्तरे तु भगवान् द्विजशापखिन्न-
देहान्सुरानवनतानवलोक्य सन्नः ॥
वैराजविप्रतनयोऽजितसंज्ञ ईशो
देवासुरैरमथयत्सहसा पयोधिम् ॥ २४ ॥
देवासुरे जलनिधेर्मथनाद्विषष्णे
हस्ताच्च्युते गिरिवरे सहसार्द्रचित्तः ।
भूत्वा तु कूर्मवपुरद्भुतमुद्धधार
मेने च पर्वतविवर्त्तनगात्रकण्डूम् ॥ २५ ॥
दुग्धाम्बुधावुरुरुजां प्रचिकीर्षुरीश
आदाय पूर्णकलशं सुधया नितान्तम् ।
आयुर्विधाननिगमं खलु यज्ञभोक्ता
धन्वन्तरिः समभवद्भगवान्नराणाम् ॥ २६ ॥
धन्वन्तरे(१)रमृतपूर्णघटे स्ववारा
चूर्णीयमान (२)अमरे शरणं प्रविष्टे ।
मोहिन्यभूत्स भगवानमुरासुराणां
मोहाय तापविरमाय सदाप्तकामः ।। २७ ॥
सत्यव्रताय जनतर्पणतः स्वरूपं
मात्स्यं महाकरुणया प्रवितत्य सद्यः।
कल्पार्णवेऽप्यवददच्युत आत्मतत्त्वं
भूरूपनावि (३)वसते विहरन् द्विजेभ्यः ॥ २८ ॥
त्रैलोक्यदुःखदलनाय नृसिंहरूपं
कृत्वा स्वभक्तमचितुं किल लाङ्गलाग्रैः ।


(१) अस्यानन्तरमिति शेषः । (२) सन्धिरार्षः। (३) अस्य सत्यवतायेति पूर्वेणान्वयः । २सा