सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सात्वततन्त्रे-

तेनापि यज्ञतनुरीश्वर इन्द्ररूपी
स्पर्द्धां चकार महतां मदमादधानः ॥ १७ ॥
संवत्सरस्य तनयः स ह यामिनीना-
मालोकनादिविविधं मुदमाचिकीर्षुः ।
श्रीकामदेववपुषा ह्यवतीर्य देवो
देव्योमया मदनकेलिभिरारराम ॥ १८ ॥
प्राचीनबर्हितनयाँस्तपसा सुतप्तान्
दृष्ट्वा स्वशान्तवपुषाविरभूदनन्तः ।
दत्वा स्वपादभजनं वसतां गृहेषु
कन्यां च वृक्षजनितामद्दिशद्दयालुः ॥ २९ ॥
स्वारोचिषे तुषितया द्विजवेदशीर्षा
ज्जातो विभुः सकलधर्मभृतां वरिष्ठः।
यद्ब्रह्मचर्यनियमानृषयोऽप्यशिक्ष-
न्साक्षाज्जगद्गुरुतयावचचार शुद्धान् ॥ २०॥
धर्मादभूत्सुततया भगवाँस्तृतीये
मन्वन्तरे त्रिजगतेः स्थितये कृपालुः ।
श्रीसत्यसेन इति दुर्जनयक्षरक्षान्
यस्तानपाहरदसौ सुरनाथमित्रः ॥ २१ ॥
तुर्येऽन्तरे सरसि वारणराजराजं
ग्राहेण तीव्रबलिना परिकर्ष(१)यन्तम् ।
नारायणेत्यभिहिते हरिरुद्दधार
तस्माद्भवार्णवजलादपि देवराजः ॥ २२ ॥
वैकुण्ठ आस भगवान् द्विजवर्य मुद्रा(?)
देव्या मया तदनुरूपजयाभिधानः।


(१) परिकृष्यमाणमित्यर्थे आर्षप्रयोगः ।