बाह्येऽपि चास्य वचसा वनमेत्य देहं
सन्त्यज्य तत्पदमगादरिसैन्यवह्निः ॥ ४०॥
शत्रुघ्नसंज्ञ उरुविक्रमशुद्धबुद्धिः
शौर्येण दर्पदलनो द्विषतां दयालुः
दीनेषु दैत्यलवणान्तक आर्य्यसेवी
स्वान्येषु(१) साम्यमतिराजनताभिरामः ॥ ४१ ॥
माकण्डनाममुनये भुवनानि देष्टुं
मायालये तनुतरे जठरे मुकुन्दः ।
न्यग्रोधपत्रपुटकोषशयान आसी-
दङ्गुष्ठपानपरमः शिशुरप्रमेयः ।। ४२ ॥
वृत्रस्य घोरवपुषा परितापितानां
संरक्षणाय भगवान् युधि निर्जराणाम् ।।
आद्यो ह्यभूद्गरुडकिन्नरगीतकीर्ति-
स्तेषां सुदुःखभयशोकविनाशशीलः ॥ ४३ ॥
अङ्गुष्ठपर्वसुमितान् श्रमणान् द्विजाग्यान्
दृष्ट्वा तु गोष्पदपयोगतसर्वदेहान्
ब्रह्मण्य इन्द्रहसिताम्समिदंशुहस्तान्
गुर्वर्चनाय कृपयाss(२)वदमुन्प्रपन्नान् ॥ ४४ ॥
दुष्यन्तबीजमधिगम्य शकुन्तलायां
जातो ह्यजोऽपि भगवानधियज्ञकर्तृन् ।
विस्मापयन्बहुनृपान् बहुवाजिमेधान्
साक्षादियाज बहु दानमदादमेयः ॥ ४५ ॥
सर्वान् जनान्कलियुगे बलबुद्धिहीनान्
दृष्ट्वा कृपापरवशो (३)वसुवीर्यजायाम् ।
(१) स्वकीयेषु परेषु चेत्यर्थः ।
(२) आवत-अरक्षत् ।
(३) सत्यवत्यामित्यर्थः ।