सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूमिका। 6 तथा- . शब्दसाम्यन्तु- "कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः॥ (भा०११-५-३८) "अतः कृतादिषु प्रजाः कलौ सम्भवमात्मनः । वाच्छन्ति धर्मपरमाः भगवद्भक्तिकारणम्" ॥ (सा०५-४२) तथा- "कलि सभाजयन्त्यार्या गुणज्ञाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वः स्वार्थोऽभिलभ्यते” ॥ (भा०११-५-३५) "तस्मात्कलौ परो धर्मो हरिकीर्तेः सुकीर्तनम् । यतः कलिं प्रशंसन्ति शिष्टास्त्रियुगवर्तिनः" ॥ (सा० ५-४५) इत्याद्यनेकस्थलेषु कियताप्यंशेन स्पष्टं, दिङ्मात्रमिहोदाहृतम् । अत्रानेके विषयाः प्रतिपादिताः, ते च बृहद्विषसूचिकायां द्रष्टव्याः। श्रीकृष्णसहस्रनाम तु सर्वथादृष्टचरमेव । अस्य विष्णुसहस्रनामेति. पदेनाप्युल्लेखो दरीदृश्यते, यथा- "इत्येतस्कथितं विप्र विष्णोर्नामसहस्रकम् ॥ इति । (सा०६-२१३) अत्र प्रदर्शितमार्गेण यदि मनुष्याचरणं. भवेत्तर्हि तन्त्रोक्तफललाभ- स्तस्य भवेदिति निश्चितम् । चौखम्बासंस्कृतसीरिजेत्याद्यनेकमालाग्रन्थसम्पादकहरिदासपुत्र. जयकृष्णदासमहोदयप्रेरणया प्रवृत्तेन मयास्य संशोधनसमय एकमेव हस्तलिखितं पुस्तकं पूर्वोक्तमहोदयगजराजकेसरिणामासादितम् । तत्रत्यकृष्णनामसहस्रसंशोधनसमये श्रीयुतविष्णुप्रसादभाण्डारिमहो- दयैः प्रदत्तमपरं कृष्णनामसहस्रमात्रयुतम् । पुस्तकद्वयमप्यशुद्धिबहुलं त्रुटिताक्षरं प्राचीनलिपिलिखितमासीत् । तस्साहायेन यावद्बुद्धि- बलं संशोधनं कृतम् । संशयितस्थलेषु प्रश्नचिन्हं तथा क्वचि. त्स्थले टिप्पणमपि योजितम् । अस्य संशोधने तथा टिप्पणादियोजने पण्डितवरसाहित्याद्यनेकशास्त्राचार्यभाण्डायुपनामकश्रीविष्णुप्रसाद. शर्मणां तथानेकदयादाक्षिण्यादिगुणालङ्कृतपण्डितभगवद्भक्तश्रीपद्म. नाभकेसरिमहोदयानां सहायं सुमहत्सञ्जातमतस्तेभ्योऽनेकान् धन्य. वादान् प्रकाश्यैतत् संशोधनं श्रीकाशीपुरीपालकश्रीभैरवनाथकृपया सम्यक् समाप्तमतस्तान् प्रणम्यान्ते विद्वत्प्रकाण्डान् ग्रन्थस्यास्य संशो- धने जातं स्खलितमुपेक्ष्य गुणान् गृह्णन्त्वितिसाञ्जलिबन्धं प्रार्थयति- काश्याम- विद्वद्वशंवद:- अधिकवैशाखामावस्यायाम्- अनन्तशास्त्री फडके मिते विक्रमाब्दे । १९९१ व्याकरणाचार्यो मीमांसातीर्थश्च ।