सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५११
जीवन्मुक्तस्य संस्कारशेषादवस्थानम् ।


 स्यादेतत्-"उत्पन्नतत्त्वसाक्सात्कारश्चेत्तदनन्तरमेव- मुक्तस्य तस्य देहपातः स्यादिति कथमदेहः प्रकृतिम्प- श्येत् । अथ तत्त्वज्ञान ऽपि न मुच्यते कर्मणामपक्षीण त्वात् ? तेषां कुतः प्रक्षयः ? भोगात्' इति चेत्, हन्त भोस्तत्वज्ञानन्न मोक्षमाधनम्-इति व्यक्तव्यज्ञविज्ञा- नजन्मना तत्त्वज्ञानेनापवर्गः इति रिक्त वचः । "भोगेन चापरिसंख्येयः कर्माशयप्रचयो ऽनियतविपाककालः क्षेतव्यः, ततश्चापवर्गप्राप्तिरित्यापि मनोरथमात्रम्" इत्यत आह -


 सम्यग्ज्ञानाधिगमात् धर्मादीनामकारणप्राप्तौ ।
 तिष्ठत संस्कारवशात, चक्रभ्रमिवद् धृतशरीरः ॥६७॥


 सम्यकू' इति । तत्त्चसाक्षात्कारोदयादेवानादिर- प्यनियतविपाककालो ऽपि कमशियप्रचयो दग्धबीजभा- वता न जात्यायुर्भोगलक्षणाय फलाय कल्पते । क्लेश- सलिलावसिक्तायां हि बुद्धिभूमौ कर्मबीजान्यङ्करं प्र-




तिर्मया दृष्टेत्युपेक्षको भवति । उपरमते तत्तद्भोगाद्यावेशरहितो भवति । तथा अन्य प्रकृतिः उपरमते न प्रमूते इत्यन्वयः ॥ ६६ ॥

 पूर्वोक्तसङ्गत्याऽऽर्यमवतारात । स्यादेतदिति । शरीरपाते इष्टापत्तौ प्रत्यक्षप्रमाणविरोधमाह । कथमिति । दर्शने शरीर- स्य हेतुत्वादित्यर्थः । कर्मणां मुक्तिप्रतिबन्धकत्वामित्यभिप्रायेण शङ्कते । अथेति । निराकरोति । तेषामितिरिक्तम् अर्थशू- न्यं वच इत्यर्थः । अनियतविपाककालः । अनियत विपाका- नां जात्यायुर्भोगानां कालो यस्य कमीशयस्य सः । तत्र सहका- रिकारणाभावरूपहेतुमाह । क्लेशेति । क्लेशा आवद्यास्मिताराग- द्वेषाभिनिवेशास्ते एव सलिलानिं तैरभिासक्तायां बुद्धिभूमौ के-