सुवते । तत्वज्ञाननिदाघनिपीतसकलक्लेशसलिलायामू षराव्यां कुतः कर्मचाजीनामङ्कुरप्रसवः ? तदिदमुक्तम्-- "धर्मादीनामकारणप्राप्तौ" इति, अकारणत्वासा- वित्यर्थः । उत्पन्नतत्त्वज्ञानो ऽपि च संस्कारवशात् ति ष्टति, यथापरते ऽपि कुलालव्यापारे चक्रं वेगाख्यसं- कारवशात् भ्रमत् तिष्ठति । कालपरिपाकवशास्तूपरते संस्कारे निष्क्रियम्भवति । शरीरस्थितौ च प्रारब्धप- रिपाकौ धर्माधर्मौ संस्कारौ । तथा चानुश्रूयते-भो- गेन त्वितरे क्षपयित्वाऽथ सम्पद्यते” इति तस्य ताव- देव चिरं यावन्न विमोक्ष्ये ऽथ सम्पत्स्ये” इति च ( छा- न्दोग्य ६ } १४ । २ ) । प्रक्षीयमाणाविद्यासंस्कारावशे- षश्च संस्कारस्तद्वशात् तत्सामर्थ्यात् धृतशरीरस्ति-
र्माणि धमाधर्मरूपाणि बीजानि भोगादिरूपमंकुरं-प्रसुवते जनय: न्ति । तान्येवोषरायां न जनयन्ति अंकुरानित्याह । तत्वज्ञा- नेति । मूले सम्यक् ज्ञानाधिगमात् । सम्यक् ज्ञान मिथ्या- ज्ञानोच्छेदि ज्ञानं तदधेिगमात्तदुत्पत्तेः। धर्मादीनां देहारम्भकानां सञ्चितक्रियमाणानामित्यर्थः । व्याख्यायाम् । तदिदमिति । त- -तस्मादित्यर्थः । प्राप्तौ भेदापेक्षितत्वादाह । अकारणत्वमिति । तिष्ठतीत्यत्र विशेष्यमध्याहरति । उत्पन्नतत्त्वज्ञानोऽपीति । तत्र दृष्टान्तमाह । यथेति । शरीरस्थितौ संस्कार दर्शयति । प्रारब्धपरिपाकाविति । शरीरारम्भकावित्यर्थः । संस्कारनाशे प्रमाणमाह । यथा च श्रूयते इति । भोगेनेत्यादि । व्याससूत्रम् । ( अ० ४ पा० १ सू० १९) । तस्य तावदेवेत्यादिश्रुतिरिति विभागः । सूत्रं तु इतरे अनारब्ध कार्ये पुण्यपापे इत्येवं व्याख्येयम् । अन्यथा “उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः इति भगवचनविरोधः । ज्ञानोपदेष्टुर-