शब्दादींस्तदविवेकात् ‘ममैतत्' इत्यभिमन्यमान आत्मा
भुञ्जीत । एवं विवेकख्यातिमपि प्राकृतीमविवेकादेवा-
त्मा ‘मदर्थेयम्' इति मन्यते । उत्पन्नविवेकख्यातिस्तु
तदसंसगच्छब्दादीन्नोपभोक्तुमर्हति नापि विवेकख्या-
तिम्प्राकृतीमपि कर्तुम् । ततो विविक्त आत्मा न स्वार्थ-
मभिमन्तुमर्हति । पुरुषार्थी च भोगविवेकौ प्रकृत्यारम्भ-
प्रयोजकाचित्यपुरुषार्थौ सन्तौ न प्रकृति प्रयोजयतः । त-
दिदमुक्तम्-"प्रयोजनन्नास्ति सर्गस्थ” इति । अथ प्रयु-
ज्यते सर्गे प्रकृतिरननेनि प्रयोजनम्, तदपुरुषार्थे ना-
स्तीत्यर्थः ।। ६३ ॥
धिसंयोगविशेषतत्कारणाविवेकादीनामत्यर्थः । अविवेकस्य स- र्गे सहकारित्वमन्वयव्यातरेकाभ्यां व्युत्पादयति । प्राकृतानित्या- दिना । विवेकख्यातेरात्मार्थत्वेऽविवेकहेतुत्वमाह । एवमिति । एवं शब्दादि भोगो यथा तथा ख्यातिरपि मदर्थेयर्थः । नापि वि- वेकख्यातिकर्तृत्वामित्याह । नापति । नापि तामाकाङ्क्षतीयाह । न स्वार्थभिति । अविवेकवत्प्रसवे पुमर्थस्यापि निमित्तत्वात्तद- भिप्रायेण भूलं योजयति । पुमथाविति । तथा च सूत्रं "विमु क्तबोधान्न सृष्टिः" प्रधानस्य लोकवदिति । ( सा० द० अ० ६ सू० ४३ ) सूत्रं तु विमुक्त्बोधात् विमुक्तोऽयमिति बो- धादिव मुक्तं प्रति न प्रधानस्य सृष्टिः प्रवृत्तिः । लोकवत् । यथा हि लोके हि कश्चित्कस्यचिद्बन्धमोक्षार्थं यतते जाते च मोक्षे उदास्ते तथा प्रधानमित्येवं व्याख्येयम् । सर्गस्य प्रयोजनं नास्ती- त्यत्र हेतुमाह । अपुरुषार्थत्वे इति। ममेदमित्यभिमानाभावादित्य र्थः। तथा च सहकारिकारणाभावे योग्यताया अकिञ्चित्करत्वात्सर्गो न सम्भवतीत्यभिप्रायः । मूले तयोः । प्रकृतिपुरुषयोर्मध्ये एको द्रष्टा पुरुषः । स्वभिन्नेयं स्वभिन्नं स्वसंपर्काद्धध्नातीत्येवगुणा प्रकृ-