एवं सूक्ष्मशररास्तित्वमुपपाद्य यथा संसरति येन हेतुना च-तदुभयमाह-
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्वभुत्वयोगान्नटवव्द्यवतिष्ठते लिङ्गम् ॥ ४२ ॥
पुरुषार्थहेतुकम्” इति । पुरुषार्थेन हेतुना प्रयुक्त- म् । “निमित्तम्” धर्माधर्मादि, "नैमित्तिकम्” तेषु तेषु निकायेषु यथायथं षाट्कौशिकशरीपरिग्रहः, स हि धर्मादिनिमित्तप्रभवः । निमित्तश्च नैमित्तिकञ्च-तत्र यः प्रसङ्गः प्रसक्तिस्तया "नटवद्व्यवतिष्ठते लिङ्गम्" सुक्ष्मश- रीरम् । थथा हि नटस्तां तां भूमिकां विधाय परशुरा- मो वा ऽजातशत्रुर्वा वत्सराजो वो भवति, एवन्तत-: त्स्थूलशरीरपरिग्रहणाद्देवो वा मनुष्यो वा पशुर्वा वन- स्पतिरवा भवति सूक्ष्मशरीरमित्यर्थः ।
आवश्यकत्वात् ।
नन्वागमे सूक्ष्मशरीरस्य नामपि न श्रूयते इत्यत्राह । आ- त्मन इत्यादि । उभयत्र लक्षणाकल्पने आगमस्य लक्षण- या मरणमात्रपरत्वमेव किं न स्यादित्यत आह । तदपीति । त था च सर्वपदानां स्वार्थत्यागापेक्षया पुरुषशब्दमात्रस्य योगाथग्रह- णमेव न्याय्यं तस्यापिने स्वार्थत्यागो योगार्थस्यार्थत्वादित्यर्थः॥४१॥
उपेद्धातसंगत्याऽऽयमवतारयति । एवमिति। निकायेषु देव तिर्यङ्मनुष्येषु षाट्कौशिकशरीरपरिग्रहः । धर्मादिनिमित्तक इत्य- र्थः । निमित्तं धर्मादि । नैमित्तिकं च धर्मादिकारणकस्थूलश- रीरादिप्रसक्तिः । मनुष्योऽहं ममेदं यागादिधर्मरूपं कार्यमित्याद्य- भिमानः । तथा पूर्वोक्तप्रसत्या । दृष्टान्तमुपपादयति । यथा ही-