कुतस्त्यः पुनरस्येदृशो महिमेत्यत आह-“प्रकृतेर्वि भु-
त्वयागात्' इति । तथा च पुराणम्-"वैश्वरूप्यात् प्र-
धानस्य परिणाम ऽयमद्भुनः" इति ।। ४२ ॥
"निमित्तनैमित्तकप्रसङ्गेन" इत्युक्तम्-तत्र निमि- त्तनैमित्तिके विभजते-
सांसिद्धिकाश्च भावाः प्राकृतिका बैंकृताश्च धर्मोद्याः ।।
दृष्टाः करणाश्रयणः कार्याश्रयणश्च कललाद्याः ॥४३॥
“सांसिद्धकाश्च" इति । "वैकृताः” नैमित्तिकाः, पु-
ति । भवति । तच्छरीरं स्वाभिन्नत्वेन महत्वेन च मन्यते ।
ननु कथमशुपरिमाणस्य सुक्ष्मशरीरस्य महद्देहेषु व्याप्त्यभि। मान इत्याशंकते । कुतस्य इति । प्रकृत्यापूरापगमाभ्यां मह- दल्पादिकमुपपद्यते इत्यभिप्रायेण समाधत्ते । प्रकृतेरित्यादि । तत्र पुराणसंमतिमाह । तथा चेति । अद्भुतः । प्रकृत्यापूरापग- माभ्यां महदल्पपरिमाणवानित्यर्थः ।। ४२ ॥
प्रसंगसंगत्याऽऽर्यमवतारयति । निमित्तेति । धर्ममात्रपर: भावपदस्य प्राकृतिकवैकृतिकोभयत्रान्वयलाभाय प्राकृतिकस्य सां- सिद्धिकेऽन्वयलाभाय च वैपरीत्येनार्यां व्याचष्टे । वैके-: तिका इति ।
केचित्तु धर्माद्या भावाः त्रिविधाः सांसिद्धिकाः प्राकृतिका वैकृतिकाश्च । सांसाद्धकाः सहजाः प्रकृतिपरिणामकाले परिणमन्ते फलायन्ते प्राकृतिका इत्याहुः ।।
प्रकृते तु भावा द्विविधास्तेषु मध्ये धर्माद्याः करणाश्रयिणः बुद्ध्याश्रयिणः दृष्टा इत्येवं बोध्यम् । असांसिद्धिकत्वे हेतुमाह ।