पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२९
सूक्ष्मशरीरे प्रमाणोपन्यासः ।



 चित्रं यथाऽऽश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया ।
 तद्वद्विना विशेषेर्न तिष्ठति निराश्रयं लिङ्गम् ॥ ४१ ॥


 "चित्रम्" इति । लिङ्गनात् ज्ञापनात् बुद्ध्यादयो 'लिङ्गम्', तत् "अनाश्रयन्न तिष्ठति" । जन्ममरणान्तरा ले बुद्ध्यादयः प्रत्युत्पन्नशरीराश्रिताः,-प्रत्युत्पन्नपञ्चतन्मात्र- वत्वे सति बुढ्यादित्वात्,-दृश्यमानशरीरवृत्तिबुझ्यादि वत् । “विना विशेषैः” इति, सूक्ष्मैः शरीरित्यर्थः । आगमश्चात्र भवति--


 “ततः सत्यवतः कायात् पाशबद्धं वशङ्गतम् ।
 अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष वलायमः ।


 [महाभारत वनपर्व-अध्याय २९६,]इत्यङ्गुष्ठमात्रत्वे- न सूक्ष्मश्रीरत्वमुपलक्षयाति । आत्मनो निष्कर्षा सम्भवात् सूक्ष्ममेव शरीरम् "पुरुषः", तदपि पुरि स्थूलशरारे शेते इति ॥ ४१ ॥




साश्रया इत्युक्ते प्रधानेनान्यथासिद्धेराह । प्रत्युत्पन्नेति । प्रत्युत्प- त्वं पूर्वोत्पन्नत्वं तेन तदाश्रयीभूतशरीरस्य पश्चादुत्पत्तौ पूर्वं निरा- श्रयावस्थानांगीकारेण पुनस्तदाश्रयकल्पनं व्यर्थमिति परास्तम् ।

 वस्तुतस्तु अन्तरालकालावच्छिन्ना बुद्ध्यादयः शरीराश्रिता इत्यु- ते प्रधानवत्प्रलयावस्थायिशरीरसिद्धया ऽर्थान्तरापत्तिरतः प्रत्यु- त्पन्नति । सर्गं प्रत्युत्पन्नमियर्थः । न च दृष्टान्तासिद्धिः । उत्पन्न मात्रपरत्वात् । उक्तानुमानस्याप्रयोजकत्वशंकानिरासायाह । आ- गमश्चेति ।।

 नन्वंगुष्ठमात्रत्वे स्थूलत्वप्राप्त्या न संवाद इयत आगमं व्याचष्टे । सूक्ष्मशरीरत्वमिति । न च लाक्षणिकार्थकरणमनुचितम् । अङ्गुष्ठपदस्य स्वस्वांगुष्ठपरत्वेऽपि सर्पोदेरंगुष्ठाभावेन लक्षणाया