ननु धर्माधर्मनिमित्तः संसारः, न च सूक्ष्मशरीर स्यास्ति नद्योगः, तत्कथं संसरतीत्यत आह–"भावैर- धिवामितम्” इति । धर्माधर्मज्ञानाज्ञानवैराग्याचैरा- ग्यैश्वर्यानैश्वयाणि भावाः, तदन्विता बुद्धिः, तदन्वि- तञ्च सूक्ष्मं शरीरमिति तदपि भावैरधिवासितम् , यथा सुरभिचम्पककुसुमसम्पर्काद्वस्त्रं तदामोदवासितम्भव- ति । तस्माद्भावैरेवाधिवासितत्वातु संसरति ।
कस्मात् पुनः प्रधानभित्र महाप्रलये ऽपि तच्छरीरन्न तिष्ठतीत्य आह-"लिङ्गम्” इति । लयं गच्छतीति लिङ्गम्-हेतुमत्त्वेन चास्य लिङ्गत्वमिति भावः ॥ ४० ॥
स्यादेतत्--चुडिरेव साहङ्कारेन्द्रिया कस्मान्न संस- रति ? कृतं सूक्ष्मशरीरेणाप्रामाणिकेनेत्यत आह-
स्मृत्या धर्मादेश्चंदनस्थूलशरीरादिसामग्रीजननद्वारैव सुखाद्युत्पाद- कत्वकल्पनात् ।
ननु “योनिमन्ये प्रपद्यंते शारीरत्वाय देहिनः । स्थाणुमन्येऽनु- संयंति यथाकर्म यथाश्रुतम् । मानसं मनसैवायमुपभुङ्गे शुभाशु- भम् । वाचा वाचकृतं कर्म कायेनैव तु कायिक" मित्यादिश्रुतिस्मृ- तिभ्यामवगतसंसारनिमित्तधर्मादः लिंगशरीरे ऽभावात्कथं संसर- णमित्याशयेन शंकते । नन्विति । परम्परासम्बन्धे दृष्टान्तमाह । यथेति । आशकापूर्वकलिंगपदव्युत्पत्तिमाह । कस्मादिनि ।
ननु वह्नेधूमो लिंगमित्यादौ ज्ञापके लिंगपदप्रवृत्तिदर्शनात् वने विलीनो विहंग इत्यादावदर्शनच्च कथं तद्व्युत्पत्या लिंगपदप्रवृ: त्तिरित्यत आह । हनुमत्वेन चेति । तथा च हेतुमत्सावयमित्यादौ जन्यत्वस्योक्तत्वात्प्रधानज्ञापकत्वमपि सम्भवतीत्यर्थः ॥ ४० ॥
उपेद्धातसंगत्याऽऽर्यमवतारयति । स्यादेतदिति । उक्तमप्रा- माणकत्वन्निरस्यति । जन्मेति। प्रायणं मरणं तयोन्तराले । मध्ये ।