पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४११
प्रासङ्गिकस्तिङर्थविचारः ।


सम्भवस्तस्मिन्देशे काले च मम्भावनं प्रसञ्जनमिति यावत् ।

 तञ्च सम्भावनमुल्कटकोटिकसंशयः । बाधावतारे चाहार्य- ज्ञानं तत्र धात्वर्थः । प्रकारक्या प्रथमान्तार्थश्च विषयतयाऽन्वे- ति । यथा हि यदि सहस्रवर्षमजीविष्यंस्तदा पुत्रशतमजनिष्यं यदिशब्दस्यानिर्धारणं कालविशेषश्चार्थः । स च क्रियान्वयी । द्वितीयायाश्चात्यन्तसंयोगो व्यापकत्वं निरूढलक्षणयाऽर्थः । तथा निर्धारितकालविशेषवृत्तिभविष्यद्धेतुभूतसहस्रवर्षव्यापकजीवनप्र- कारकसम्भावनाविषयोऽहं तत्कालीनभविष्यत्कार्यीभूतशतपुत्र- कर्मकोत्पत्त्यनुकूलव्यापारप्रकारकसम्भावनाविषयः । अत्र च वर्ष सहस्रजीवित्वस्य स्वस्मिन् बाधावतारे प्रसक्तिरेव सम्भावनं तदन- वतारे संशय एव तदिति । एवं भूतेऽप्युक्तरूपार्थे लृङ् यथा यदि शिलाः कोमला अभविष्यन्तदा क्रोष्टुभिरेवाभक्षयिष्यन् । अत्र यदिशब्दस्यासत्वं कालविशेषश्चार्थः। लृङश्चातीतत्वं हेतुहेतुमद्भावः प्रसञ्जनं चार्थः । असत्त्वं चाभावप्रतियोगित्वम् । तच्च धात्वर्थे- ऽन्वेति । अभावे च प्रथमान्तार्थोऽधिकरणत्वेनान्वेति । एवं च शिलाः स्ववृत्यभावप्रतियोगिहेतुभूतातीतकोमलीभवनप्रकारक प्रस- ञ्चनविषयास्तत्कालीनक्रोष्टुवृत्यतीतकृतिजन्यकार्यीभूतभेक्षणकर्म- त्वेन प्रसञ्जिताः । एवं यद्ययं निर्वह्निः स्पात्तदा निर्धूमः स्यादि- ति तर्के यदिशब्दस्यानिद्धरणं कालविशेषश्चार्थः । लिङः वर्त्त- मानत्वं प्रसञ्जनं चार्थः । तथा च पर्वतो ऽनिर्द्धारितकालविशेषवृ- त्तिवर्तमानर्निवह्नित्वसत्ताप्रसञ्जनविषयतत्कालीनवर्तमानानिर्धूमस- तापसञ्जनाविषय इत्यन्वयबोधः । . .

 परे तु क्रियातिपत्तिस्थले आहार्य एव शाब्दबोधः । यदि च वर्षसहस्रमजीविष्यं तदा पुत्रशतमजनियमित्यादवियोग्यतानि- श्रयसर्त्वेऽप्यनिर्धारितकालाविशेषवृत्तिभविष्यद्धेतुभूतवर्षसहस्रजीवि- त्ववानहं तत्कालीनभविष्यत्कार्यीभूतपुत्रशतोत्पत्त्यनुकूलव्यापार-