वर्तमान सामीप्यमपि क्वचिल्लडर्थः । वर्तमानसामीप्ये वर्त्तमा-
नवद्वेति पाणिनिसूत्रात् । वर्तमानसामीप्यं चातीतानागतसाधारणं
तच्च भविष्यद्वृत्तिवर्तमानध्वंसोत्पत्तिक्षणोत्पत्तिकक्रियादिवृत्तित्व-
रूपम् , अतीतवृत्तिवर्तमानक्षणोत्पत्तिकध्वंसप्रतियोगिक्रियादिवृत्ति-
त्वरूपम् । कदा यास्यसीत्युक्त एष गच्छामीत्यादावाद्यम् । कदा
आगतोऽसीति पृष्ठे एष आगच्छामीत्यादावन्त्यं प्रतीयते । तदपि
वर्तमानत्वादिवत्कृतावेवान्वेति । एवं च निरुक्तवर्तमानसामीप्या-
श्रयगमनानुकूलकृतिमानहमित्याकारकोऽन्वयबोधः । लिटः परो-
क्षत्वे सत्यनद्यतनातीतत्वमर्थः । अद्यतनं च गतनिशायाः प्रहर-
स्तथाऽऽगामिन्याः, दिनस्य यामचतुष्टयं च । एवमत्यन्तापह्नेवेऽपि
लिटू साधुः । अत्यन्तापह्नवे च लिड् वक्तव्य इति वार्त्तिकात् । यथा
कलिङ्गो दृष्टोऽस्ति त्वयेति केनचित्पृष्टे स च तमपह्रोतुमाह नाहङ्क-
लिङ्गं जगामेति तदपदह्नवश्च तदप्रतिपयनुकूलशब्दः । तस्य चात्य
न्तिकत्वं प्रश्न विषयविपरीतमनुक्त्व तदुपपादकविपरीतकथनम् ।
प्रकृते दर्शनविषयतया दृष्टोऽस्तीति प्रश्नविषयः । तद्विपरीतं न दृष्ट-
इस्तीत्यनुक्त्वा तदुपपादकस्यातीतकलिङ्गगमनस्याभावकथनम् ।
इदं तु बोध्यम् । अनद्यतनत्वं परोक्षत्वं चात्यन्तापह्नवश्च न तत्तत्प्रत्ययशक्यः । न वा तत्तत्पदजन्यशाब्दधीविषयः किं त्वहमा- दिपदे उच्चारयितृत्वादिवत्स्वरूपसदेव तत्तत्प्रत्ययाधीनधीनियाम- कम् । शाब्दधीबोधविषयश्चातीतत्वमेव । अन्यथा अत्यन्तापहव-: स्य शाब्दधीविषयत्वेऽपह्नवत्वव्याघातादिति दिक् । क्रियातिपत्तौ लृङः भविष्यत्व हेतुहेतुमद्भावोऽतिपत्तियार्थः । किनिमित्ते लुङ क्रियातिपत्ताविति पाणिनिसूत्रस्वरसात् । लि-. इनिमित्ते हेतुहेतुमद्भावे स च क्रियान्वयिभविष्यत्वं च कृत्यर्थ- काख्यातस्थले कृतावाश्रयार्थकस्थले च धात्वर्थेऽन्वेति । क्रियाया अनिष्पत्तिश्चातिक्रमेण पतने सम्भावनं यदेशे यत्काले च क्रियायाः