वानहमित्यन्वयधीराहार्यरूपा एव । यदि शिलाः कोमला अभ- विष्यन् यद्ययं निंवर्ह्निः स्यादित्यादौ च तकें आहार्य एव ता. शो बोधः ।।
न चैवं वह्निना सिञ्चतीत्यादवियोग्यता निश्चयसवे आहार्य. बोधः स्यादिष्टत्वात् ।।
न च भवेद्वा, यद्यादिपदयुक्तदशलिङादिपदसमभिव्याहार एव तन्नियामकः । यदि च दोषविशेषाद्यजन्यानाहार्यतज्जन्य- त्वापेक्षया तच्छाब्दत्वादेर्लधुत्वात्तदवाच्छिन्नं प्रत्येवायोग्यतानिश्च- यादेः प्रतिबन्धकत्वस्वीकारान्नाहार्यशाब्दबोध इत्युपेयते तदा क्रि- यानिष्पत्तौ त च पदार्थोपस्थितिमात्रं न शाब्दधीः । अनन्तरं तादृशोपस्थितिलाघवप्रतिसन्धानेन मानस एव तादृशतर्कात्मको बोधः । यथा शब्दो नित्यो न वेति विप्रतिपत्तिवाक्यात्पदार्थोप- स्थितौ मानस एव संशयः । लिङ्निमित्ते लृङ् क्रियानिष्पत्तावि- त्यनुशासनं तु तादृशापत्तितात्पर्यस्थले लृङ् साधुरित्येवमित्याहुः ।
अन्ये तु । क्रियातिपत्तिः प्रसक्तक्रियाया अभावः । लक्षण या धातोस्तादृशक्रियाया अभाववोधे यदिशब्दस्तात्पर्यग्राहकः । हेतु- हेतुमद्भावत्वं; यथायथमतीतत्वमनोगतत्वं च लृङर्थः । तञ्चा- भावान्वयि । एवं च यदि शिला इत्यादावतीतकालसम्ब- न्धिहेतुभूतकोमलीभवनाभाववत्यः शिलाः क्रोष्टुवृत्तिकृति- जन्यातीतकालसम्बन्धिजन्यभूतलक्षणकर्मत्वाभाववत्य इति बोधः । एवं कोमलीभवनाभावहेतुकः शिलायाः कोष्टुकर्तृकभक्ष- णाभाव इति पर्यवसितोऽर्थः । एवं वर्षसहस्रामित्यादा- वागतकालसम्बन्धित्वविषयकः । तथा चानागतकालसम्बन्धि- वर्षसहस्रीयजीवित्वाभावहेतुको मम पुत्रशतोत्पादकत्वाभाव इति पर्यवसितोऽर्थः ।* यद्ययं निवेह्निः स्यादित्यादौ तु पूर्वोक्त एवा. ग्राह्यः । निर्वह्नित्वसत्वाभावस्य वह्निपर्यवसितस्यानुमित्युत्प-